SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ-| हरि० २ अध्या जन्मविचारः शरीराणि नर्देश अर्थप्रधानन्यवहारज्ञापनार्थ इति ॥ ३५ ॥ शेषाणां सम्मूच्र्छन मिति ॥३६॥ सूत्रं ॥ शेषाणाम्-उक्तव्यतिरिक्तानां पृथिव्यादीनां सम्मूर्छनं जन्मेति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'उभयावधारणं चात्र भवती'त्यादिना, (पृ. ५०-३) उभयावधारणमिति जरायवादीनां गर्भादौ गर्भादीनां जरावादाविति, अत्रेति जन्मवि| भागाधिकारे, यदाह-जरायुजादीनामेव गर्भः, नौपपातिकादीनामुक्तलक्षणानां, गर्भ एव जरायुजादीनां, नोपपातादि, एवमु| पपातादिवपि योजनीयमिति ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणीति ॥ ३७ ।। सूत्रं ॥ | अनन्तरोक्तासु जन्मसु योनिषु च एतावन्त्येव शरीराणीति सूत्रसमुदायार्थः अवयवार्थ त्वाह-'औदारिक'मित्यादिना (पृ. ५०-१०) तत्रोदारं बृहत् स्थूरद्रव्यमित्यर्थः,तनिवृत्तमौदारिकं,औदारिकशरीरनामकर्मोदयनिष्पन्नं चौदारिक,विविधा क्रिया विक्रिया तया निर्वृत्तं वैक्रियशरीरनामकर्मोदयनिष्पन्न वा वैक्रिय,चतुर्दशपूर्व विदा प्रतिविशिष्टप्रयोजनायाहियते इत्याहारक, तेजोविकारस्तेज एव वा तैजसं-उष्णगुणं शापानुग्रहसमर्थत्वसाधनमिति, कर्मनिमित्तं कार्मणं, अशेषकर्म चास्याधारभूतं, कुण्डवदरादीनां, अशेषकर्मप्रसवसमर्थ वा यथा बीजमङ्करादीनामिति, इत्येतानि पंच शरीराणि संसारिणां जीवानां भवन्ति' | इत्येवमेतानि-अनन्तरोदितानि, पंचैव न न्यूनाधिकानि, शीर्यत इति शरीराणि, संसारिणां जीवानामिति, जीवानामेव, न मुक्ताकाशादीनां, इह चादादौदारिकं स्थूलाल्पप्रदेश बहुस्वामित्वात्, ततो वैक्रिय पूर्वस्वामिसाधर्म्यात्,तत आहारकं लब्धिसाधर्म्यात, | ॥१३७॥ ॥१३७|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy