SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० २ अध्या० ॥१३६॥ Jain Education International संमूर्कनजन्मनां जिर्यग्मनुष्याणामिति, गोकृम्यादीनां सचित्ता, गोकृम्यादीनामेव तथाविधप्राणोद्भवानां मिश्रेति, एवं गर्भजन्मनां । मनुष्यादीनां देवानां शीतोष्णा साधारणा, तेजस्कायस्य-अग्नेः उष्णा प्रतीनैव, त्रिविधाऽन्येषामुक्तव्यतिरिक्तानां सम्मूर्छनजन्मतिर्यङ्मनुष्य नारकाणां एषां तिर्यङ्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णां कस्यचिन्मिश्रा, नारकाणां लाये पृथिवीजये उष्णैव, चतुर्थ्यां क्वचिच्छीता कचिदुष्णा, नरकभेदेन, एवं पञ्चम्यामपि, पष्ठयां सप्तम्यां च शीतैव, एवं नारकैकेन्द्रियदेवानां | संवृत्ता - प्रच्छन्ना, गर्भजन्मनां तिर्यङ्मनुष्याणां मिश्रा, संवृतविवृत्ता विवृताऽन्येषामित्युक्तविपरीतानां सम्मूर्च्छनजन्मद्वीन्द्रियादितिर्यङ्मनुष्याणामिति ||३३|| जरायुजाण्डजपोतजानां गर्भ इति ॥ ३४ ॥ सूत्रं ॥ त्रिविधस्य जन्मनोऽधिकृतत्वात् तत्स्वामिप्रदर्शनपरमेतत् संबद्धार्थमेव, यावद्गर्भो जन्मेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह'जरायुजादीना' मित्यादि, (पृ.४९-८) जरायुनि जायंते स्म जरायुजाः, जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः तेषां गोमहिषी| मनुष्यादीनामित्यादि निगदसिद्धं, अण्डजानामित्यादि, अण्डे जायन्ते स्म अण्डजाः तेषां सर्पगोधादीनामिति निगदसिद्धमेव, 'पोतजाना' मित्यादि, पोत एव जाता इति पोतजाः, शुद्धप्रसवाः, न जरायादिवेष्टिताः तेषां शल्लकहस्त्यादीनामिति निगदसिद्धमेव यावद्गर्भो जन्मेति एषां सर्वेषामेव उक्तलक्षणानां प्राणिनां अशेषाणामेव गर्भो जन्म भवतीति ॥ नारकदेवानामुपपात इति ॥ ३५ ॥ सूत्रं । प्रकटार्थमेव नारकाणां देवानां चोपपातो जन्मेत्येतावदस्य भाष्यं, एतदपि निगदसिद्धमेव, नवरं नारकदेवानामिति गत्य For Personal & Private Use Only गर्भः | ॥१३६॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy