________________
श्रीतत्त्वार्थ
हरि०
विग्रहेतरे गती
२ अध्या०
व्याचिख्यासुराह-'येषा'मित्यादि, येषां जीवानां विग्रहवती उपपातक्षेत्रवशाद् भवति तेषां विग्रहा-वक्ररूपाः प्राक् चतुभ्यों । भवन्ति, अतिक्रान्तभाष्यार्थ व्यक्तिमापादयमाह-'अविग्रहा' इत्यादि, अविग्रहा समश्रेणिस्थानोपपाते, एकविग्रहा एकव- क्रवलनाप्यविश्रेणिस्थानोपपाते द्विविग्रहा द्विवक्रवलनाप्यविश्रेणिस्थानोपपाते त्रिविग्रहा त्रिवक्रवलनाप्यविश्रेणिस्थानोपपाते, | स्थापना घेणे,इत्येवमेता अविग्रहा याः चतुःसमयपरा इति चतुसमयाः परा यास ताः चतुःसमयपराः चतुर्विधावतुष्प्रकारा गतयो भवन्ति, प्रक्रमाञ्जीवानामिति, नियमार्थमेतदित्यत आह–'परतो न सम्भवन्ति' परतः चतुःसमयपराया गतेः न सम्भवन्ति, एवंसमयाः का गतयः, इदं च पूर्वशरीरविच्छेदात् (छेदौ) मंडूकजलौकागतिभ्यां भावनीयौ, आसां च गतीनां मध्ये नारकादीनामविग्रहेकद्विविग्रहा एव भवन्ति, एकेन्द्रियाणां त्रिविग्रहा बेतराश्चेति, लोकनाडीबाह्यतोऽपि तदहिस्तदुत्पत्तेः, एवमपि किं परतो न सम्भव इत्याह-'प्रतिघातभावात्' अनुश्रेणिगताविति क्रमः, ततश्चानुश्रेणिगतौ प्राप्यस्थानं प्रति चतुःसमयगमनस्वभावत्वात् प्रतिघातः, विग्रहान्तरादेव तत्सिद्धिर्भविष्यतीत्याह-'विग्रहनिमित्ताभावाच' सर्वलोकेऽपि, प्रक्रमात् अधिकविग्रहापेक्षमेतत्, विग्रहान्तरनिमित्ताभावाचेत्यर्थः, न चैतदनार्ष, यथोक्तं-"अपअत्तसुहुमपुढविकाइए णं भंते ! इहलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेण उववजेजा," चत्वारश्च समयाविवक्रायामेव गतौ सम्भवन्तीत्यागमानुवादः, अन्यस्त्वाह-पंचसमयाऽपि गतिः सम्भवति,यः किल प्राणी महातमःप्रभापृथिवीविदिग्व्यवस्थितः कालं करोति बाह्यलोकविदिशि चोत्यत्स्यते तस्य पंचसमयाऽपि गतिरवश्यं भवति, तथा लोकनिष्कुटततदपरोत्पत्तेरिति, एके त्वाचार्याः केचिदाहुः-कदाचित्केयं भवति
हरिल्ले खेत्ते अपजत्तसुङ्मपुदविका" चत्वारश्च समयाखिवायातः कालं करोति बाप
॥१३१॥
॥१३॥
For Personal Private Use Only