SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गतिनियमः श्रीतवार्थ- हरि० २अध्या | एवमर्थोऽस्य प्रवचन राख्यातः, अन्यत्र तु वक्रगति मुक्त्वा सामान्येन 'यथोक्त इति यथा-येन प्रकारेण उक्तः 'कायवाङ्मनो योग इति पञ्चदशप्रकारः स तथैव भवतीति, तुशब्दो विशेषणार्थः, ऋजुगतिं स्वशरीरोत्पादं एकविग्रहां च विग्रहगति मुक्त्वा, ऋजुगतौ हि पूर्वशरीरवियोगोत्थापितप्रयत्नविशेषादेव गतिरिष्यते, धनाविमोक्षाहितसंस्कारेषुगमनवत्, औदारिकादिमिश्रः | तुलानामोनामवत् स्थूलनयाभेदात ,स्वशरीरोत्पादेऽपि तथा संहरणतो बीजाङ्करादिभावे भावोत्तरप्राप्तावित्थंभूत एव, एकविग्रहाया| मपि गतौ पूर्वापरशरीरग्रहणमोक्षयोरित्थंभूत एवेति भावनीयं, तदेवमिहेदमुच्यते-नानादिशरीरमिश्र एवेति नियमः एवं च | विग्रहगतौ कर्मयोग एव भवति, नतु विग्रहगतावेव कर्मयोगः,केवलिसमुद्घाते चतुर्थपंचमतृतीयसमयेषु तद्भावात्, विग्रहगता| वप्येकविग्रहायामभावात्, तन्नेह व्याप्तिर्विवक्षिता, तिलतलवत् शुंठीकटुकत्ववद्वा, किंतु विषयः खे शकुनिवत् उदके मत्स्यवद्वेति ॥ | अविग्रहे सति विग्रह इति तन्निबन्धनमाह अनुश्रेणि गतिरिति ॥ २७ ॥ सूत्रं ॥ आय व्यापारमधिकृत्य संबद्धमेवेति सम्बन्धानमिधान,श्रेणीमनु अनुश्रेणि श्रेणी-आरमानुसारिणी गतिमतां गतिरिति सूत्रसमुदायार्थः, अवयवार्थमाह-'सर्वा गति रित्यादिना(पृ.४७-४) सर्वा-ऊर्ध्वमधस्तिर्यग् गतिः-देशान्तराप्तिफला क्रिया, जीवानां | संसारिणां पुद्गलानां च-परमाण्यादीनां गतिसम्भवात् , पुद्गलममिगृहय प्रोक्तं सूत्रकारग्य, उत्तरसूत्रे जीवग्रहणान्यथाऽनुपपनेः, | व्यवच्छेदाभावादिति भावनीयं, "आकाशप्रदेशानुश्रेणि भवती'ति, जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशाः सर्वलघवस्तदवयवाः, निर्विभागा भागा इत्यर्थः,तेषामनुश्रेणि श्रेणेरनु भवति तथा,तदनुसारेणेत्यर्थः, अत्र जीवानां स्वशरीरावगाहप्रमा ॥१२९॥ ॥१२९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy