________________
श्रीतवार्थ
हरि० २ अध्या०
इन्द्रियस्वामिनः
निन्द्रियप्राधान्यख्यापनाय न नियमार्थ, श्रुतमात्रस्य एकेन्द्रियादीनामनिन्द्रियाभावेऽपि भावादिति ।। सूत्रान्तरसम्बन्धायाहMI'अत्राहे'त्यादि, अत्राह व्युत्पन्नचोदकः-उक्तं भवता, ग्रन्थकारपूजावचनमेतत, किमुक्तमित्याह-पृथिव्यम्बुवनस्पतितेजो
वायवो द्वीन्द्रियादयश्च चत्वारः इति जीवनिकायाः-जीवसंघाताः सामान्येन 'पंचेन्द्रियाणि चेति स्पर्शनादीनि, तत् किं कस्य पृथिव्यादेः इन्द्रियमिति ?, एवं पृष्टः सन्नाह ग्रन्थकारः-'अत्रोच्यते'
वाय्वन्तानामेकभिति ।। २३ ।। सूत्रं ॥ बारबन्तानां यथोपन्यस्तजीवानामेकमिन्द्रियमिति सूत्रसमुदायार्थः । अवयवार्थस्त्वयं-पृथिव्यादीनां वाय्वन्तानां प्रागुप-| न्यस्तानां 'पृथिव्यम्बुवनस्पतयः स्थावराः' 'तेजोवाय द्वीन्द्रियादयश्च त्रसा' इति सूत्रद्वयेन जीवनिकायानामिति पूर्ववत् एकमेवे|न्द्रियं व्यक्तिरूपेण,तच्च न ज्ञायते कतमदित्यत आह-सूत्रक्रमप्रामाण्यात्-इन्द्रियसूत्रक्रमस्य प्रमाणभावेन,प्रथमं स्पर्शनमेवेत्यर्थः, | स्पर्शनरसनेत्यादिवचनात् , न चासिद्धः एकशब्दः प्रथमार्थे, एको गोत्र इत्यादिप्रयोगदर्शनादिति ॥ तथा
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानीति ॥ २४ ।। सूत्रं ।। कृम्यादीनामिति प्रत्येकमादिशब्दग्रहणात् (कुम्यादिप्रकारा जीवा इति ग्राह्यं तेषां) एकैकवृद्धानीन्द्रियाणीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-कृम्यादीना'मित्यादि, (पृ. ४५-१६) स्पष्टं यावन्मनुष्यादीनां चेति, एकैकवृद्धानीत्युक्तेऽपि संदेह एव क्रम इत्याह-'यथासंख्यं येन क्रमेणोपन्यस्तानि तमेवोररीकृत्यैकैकवृद्धानीन्द्रियाणि भवन्ति, न क्रमोल्लङ्घनेन, एतदेव स्पष्टयन्नाह'यथाक्रम मिति, यथोपन्यासं, एतदाह-तद्यथेत्यादिना, कृम्यादीनां-कृमिप्रकाराणां, आदिशब्दस्य प्रकारार्थत्वात् , आपादिका
॥१२६॥
॥१२६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org