________________
श्री तत्वार्थ
हरि०
२ अध्या०
॥१२५॥
DOCTUS POP!
Jain Education International
याणि संख्यया, तत् कानि तानि नाम्ना इन्द्रियाणीत्युच्यतां, एवं पूर्वपक्षमाशंक्याह - उच्यते, स्पर्शनरसनघाणः श्रोत्राणीति ।। २० ।। सूत्रं ॥
स्पर्शनादीनि पंचेद्रियाणीति सूत्रसमुदायार्थः । अवयवार्थस्तु - ' स्पर्शन' मित्यादि (पृ-४५-४ ) स्पृश्यतेऽनेनेति स्पर्शनं, एवं रस्यते घ्रायते दृश्यते श्रूयतेऽनेनेति श्रोत्रं इत्यतानि पंचेन्द्रियाणि ज्ञानादिकार्यनिष्पत्तौ छद्मस्थजीवस्य करणानि, पंचेति संख्यानियमः, पंचैव, लोकसमय सिद्धत्वात् उपन्यासश्चैषां मिध्या, नैवमेवैकेन्द्रियाणि (दीनामभावादिति ) एतेषामेव विषयानाहस्पर्शरसगंधवर्णशब्दास्तेषामर्था इति ॥ २१ ॥ सूत्रं ॥
यथोपन्यस्तेन्द्रियाणां स्पर्शादयो विषय। इति सूत्रसमुदायार्थः । अवयवार्थस्तु एतेषामिन्द्रियाणामनन्तरोपन्यस्तानामेते-अधि कृतसूत्रोक्ताः स्पर्शादियः स्पृश्यतेऽसाविति स्पर्शः, एवं रसादिष्वपि वाच्यं, अर्यमाणत्वाद्विषया भवन्ति, यथासंख्यं, न संकरव्यतिकराभ्यां, असमासकरणं इन्द्रियार्थयोर्भेदज्ञापनार्थमिति ।
श्रुतमनिन्द्रियस्येति ॥ २२ ॥ सूत्रं ॥
सम्बन्धानभिधानमेकाधिकारत्वेन तदनर्थकत्वापत्तेः, भावश्रुतं मनसोऽर्थ इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह- 'श्रुतज्ञान'| मित्यादिना (पृ. ४५-८) श्रुतज्ञानमिति ज्ञानमेव, नः शब्दः, श्रोत्रार्थत्वात्, द्विविधमङ्गबाह्यमङ्गान्तर्गतं अनेकद्वादशविधमिति, | आद्यमनेकभेद मावश्य का दिभेदात् इतरद्-द्वादशभेदमाचारादिभेदेन इदं नोइन्द्रियस्य-मनसोऽर्थ इति-मनसो विषयः, तथाहिसामायिकादिशब्द ग्रहणसमनन्तरं तदर्थज्ञः तदात्मपरिणामादिरूपं यथा मनसोपलभत इति भावनीयं यथोदितश्रुतपरिग्रहस्त्व
For Personal & Private Use Only
इन्द्रियाघिकारः
।। १२५ ।।
www.jainelibrary.org