________________
इन्द्रियाणि
हरि०
भवंति संसारिणः प्रकर्षणेकजीवस्य, आरंभो नियमार्थः, न न्यूनाधिकानि, षष्ठादिपतिधार्थश्च, षडादौ येषां तानि पडाश्रीतच्चार्थ
दीनि तत्प्रतिपेधार्थश्च, ननु नियमादेव सिद्धमेवं, उच्यते, सत्यमेतत्, मनोवागादीनां त्वध्यारोपात् उच्यते कैश्चिदिन्द्रियत्वं तद्२ अध्या०
हायपोहार्थमेतदिति, सिद्धान्त:-मनः इन्द्रियं न भवत्यनियतार्थत्वात्, एवं वाकपाणिपादपायपस्था अपि नेन्द्रियाणि, वागिन्द्रियस्य
वाग्योगप्रभवत्वात् अतिप्रसंगात्,पाण्यादीनामपि कायभेषत्वात् आदानादिकार्यनियमाभावाचेलि चर्चितमन्यन्न,इन्द्रि| यत्वार्थमाह-इन्द्रिये'त्यादिना, इन्द्रियम् इंद्रलिङ्गमिति, एतत्सूत्रं व्याचिख्यासुराह-'इन्द्रो जीव' इत्यादि, इन्द्रो जीव आत्मा, |
कुत इत्याह-सर्सम्यैश्वर्ययोगात्---सर्वदूव्येषु धर्मादिषु ऐश्वर्ययोगात्, तथा तथा परिभोगेनानादिसंसारे तत्स्वभावतया | ईश्वरभावयोगात्, अत इंदनाद् इन्द्रः, विषयेषु-शब्दादिषु परमैश्वर्ययोगात् चेतनत्वेन, सत्संवेदनमेव परमैश्वर्य, तद्योगात, | वाशब्दो विकल्पार्थः, एवं च 'तस्य लिङ्गमिन्द्रियमिति' तस्य-जीवस्येन्द्रस्य लिङ्ग-चिह्न अविनाभाव्यतीनं तदवगम*कारीन्द्रियमिति, एतदेवात्मावगमहेतुतया अनेकधेत्युपदर्शयन्नाह-'लिंगनादि'त्यादिना, लिंगनात्-लिंगविषयवेगगमनाद् विष
यिणो जीवस्य चिह्नमित्यर्थः, एवं इन्द्रदृष्टं, सूचनात् केवलालोकेनोपलभ्य कथनात् , एवमिंद्रसृष्टं प्रदर्शनात् तदा तत्कर्मविनिवर्त्तनेन लोके संदर्शनात्, एवमिन्द्रजुष्टं उपलम्भात् जीवसेवनोपलंभयोगात्, एवमिन्द्रदत्तं,व्यञ्जनात् जीवव्यक्तं सद
र्थक्रियां(प्रति)प्रवर्तत इतिकृत्वा, चः समुच्चये, जीवस्य लिङ्गमिन्द्रियममिहितार्थनिगमनमेतत् , सुखादयोऽपि जीवलिंगरूपा ॥१२०॥
न च इन्द्रियमितिकृत्वा यदिन्द्रियं तज्जीवलिंगमेव, जीवलिंगं तु स्यादिन्द्रियं स्था( इतरथा वा स्यात् सुखादीति, एवं संख्यात इन्द्रियाण्यभिधाय प्रकारतोऽमिधातुमाह--
॥१२०||
sanga nagar
Jan Education n
ational
For Personal Private Use Only
www.jainelibrary.org