SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ SmCE श्रीतत्वार्थ हरि० संसारिणां स्थाचराणां च भेदाः २ अध्या० संसारिणस्त्रसस्थावराः॥१२॥ सूत्रं ॥ द्विधैते संसारिणः, समास उभयेषां परस्परसंक्रमार्थ, त्रसाः स्थावरेषु स्थावराश्च त्रसेषु मृत्वोपजायंत इति सूत्रसमुदायार्थः। | अवयवार्थ त्वाह-संसारिणो जीवाः प्राकृतनिरुक्ता द्विविधा भवन्ति, द्वैविध्यमाह-त्रसा स्थावराश्च, परिस्पन्दादिमन्तः सना|मकर्मोदयात् त्रस्यन्तीति त्रसाः, तथा अपरिस्पन्दादिमन्तः स्थावरनामकर्मोदयात् तिष्ठन्तीति स्थावरा इति, त्रसग्रहणमादौ सुखग्रहणाय स्पष्टलिङ्गत्वात् , चः समुच्चय इति । अधिकारसूत्रं चैतद्, चतुर्थाध्यायपरिसमाः संसार्यधिकारादिति ॥ तत्र-- पृथिव्यम्बुवनस्पतयः स्थावरा इति ॥ १३॥ सूत्रं ॥ पृथिव्यादयस्त्रयोऽप्येन्द्रियाः स्थावराः, समासश्च परस्परसंक्रमज्ञापनार्थः, संसारिणः त्रसस्थावरा इति यथोद्देशमनिर्देशोऽल्पवक्तव्यत्वात् स्थावराणामिति सूत्रसमुदायार्थः ।। अवयवार्थ त्वाह-पृथिवीकायिका'इत्यादिना,(पृ.४२-१५) पृथिव्येव कायः२ स | विद्यते येषां ते पृथिवीकायिकाः,पृथिवी कायो येषां ते पृथिवीकाया इति बहुव्रीहिणा सिद्धेऽपि मत्वर्थीयस्तद्गुणसंविज्ञानबहुव्रीहि| निवृत्त्यर्थः, गौरखरवदरण्यमिति प्रयोगदर्शनाच्चादोष इति, एवमपकायिकवनस्पतिकायिकयोरपि द्रष्टव्यं,इतिशब्दोऽर्थपदार्थकः, एवं | स्थानशीलतया एते यथोद्दिष्टाः त्रिविधाः स्थावरा जीवा भवन्ति,न तु स्थावरनामकर्मोदयेन,अन्ये हि, तेजोवायोरपि स्थावरत्वादिति, 'तत्रे'त्यादि, तत्र पृथिवीकायोऽनेकविधः-तजातिभेदेनानेकप्रकारः,शुद्धपृथिवी शर्करादिरहिता मृत्तिका, शर्करा-परिलब्धाश्म|शकलोन्मिश्रा वालुका वालुकामिश्राः, आदिशब्दाच्छिलादिपरिग्रहः, 'अपकायोऽनेकविधो, 'हिमादि' हिमं प्रसिद्ध, आदिशब्दात् करकादिग्रहः, वनस्पतिकायोऽनेकविधः शैवलादि, शैवलं-जलाश्रयं, आदिशब्दालतादिग्रहः।। उक्ता अधिकृतस्था ॥११८॥ ॥१ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy