________________
श्रीतचार्थ
हरि० २ अध्या०
| स्तदात्मकत्वमित्यर्थः, एवमचक्षुर्दर्शनादिप्वपि योज्यं, इतिशब्दः पूर्ववत् , इह च दर्शनपूर्वकत्वेऽपि ज्ञानस्य ‘स द्विविधश्चतुरष्टभेद'इति |
सूत्रस्य कृतिः परमार्थानुवृत्या, तथा चैतदार्ष-“कतिविहे णं भंते ! उवओगे पण्णत्ते ?. गोयमा! दुबिहे उवओगे पप्णत्ते, तंजहा-IN जीवभेदाः | सागारोवओगे अ अणागारोवओगे अ" इत्यादि, इहापि बहुभेदत्वात् बहुवक्तव्यत्वेनैवमुपन्यास इति ।।
मनः कृताः संसारिणो मुक्ताश्चेति ॥१०॥ सूत्रं ॥ सम्बन्धकारणं लक्ष्यलक्षणयोः कथंचिभेदख्यापनार्थ, उक्ताः सतत्त्वलक्षणा जीवाः सामान्यतः संसारिणो मुक्ताश्चेति द्विधा, | बहुवचनमुभयानन्त्यख्यापनार्थमिति सूत्रसमुदायार्थः। व्यासार्थमाह-'तेजीवा' अनन्तरादितलक्षणाः समासतः संक्षेपेण द्विविधाः द्विप्रकाराः भवन्ति, संसारिणो मुक्ताश्च, संसारः--तिर्यइनरनारकामरभवानुभवलक्षणो विद्यते येषां ते संसारिणः, तद्वियुक्ताश्च | मुक्ताः, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, आदौ संसारिग्रहणं तत्पूर्वकमुक्तख्यापनार्थ,अनादित्वं तेषां प्रवाहापेक्ष|मित्याचार्याः, आगमिकमेतद्वस्तु, तद्गम्यमेवेति सुधियः।। 'किं चान्यद्' अनन्तरसूत्रसम्बन्धः, यदाह
समनकामनस्का इति ॥११।। सूत्रं ॥ ___ कृतसमासनिर्देशात् संसारिण एवोभय(भेद भाज [वेद] इति नियमार्थ, एष सूत्रसमुदायार्थः अवयवार्थ त्वाह--'समासतस्त एव प्रक्रान्ता जीवा इति प्राणिनः संसारिणोऽन्वर्थयोगाद् द्विविधा भवन्ति, द्वैविध्यमेवाह-समनस्काश्च अमनस्काश्च, | सह मनसा मत्यादिभेदद्रव्यरूपेणेति समनस्का:-मनःपर्याप्तिमन्तः, तद्रहिता अमनस्काः, मनःपर्याप्तिरहिता इत्यर्थः, तान् पुर
| |११७॥ स्तात् संज्ञिनः समनस्का इति पुरो भविष्यति सूत्रे वक्ष्यामः- व्याख्यास्यामः इति ॥
॥११७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org