________________
श्रीतच्वार्थ
हरि०
दस्य सञ्चेतनामादिधर्मभेद सिद्धेरिति । उक्तः स्वतवतो जीयः, अधुना लक्षणतोऽभिधातुमाह-'किं चान्यदिति सम्बन्धग्रन्थः, उपयोगो लक्षणम् ॥ ८॥ सूत्रं ॥
U जीवलक्षणं
तद्भेदाच उपयोगो लक्षणमिति द्वितीयप्रश्ननिर्वचनं, सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'उपयोगो लक्षणं जीवस्य भवतीति भाष्यं, | इहोपयोजनमुपयोगः उपलम्भः, ज्ञानदर्शनसमाधियोजनं वा योगः-ज्ञानदर्शनप्रवर्तन,सामीप्येन योगा उपयोगाः, उपयोगः नित्यसम्बन्ध इत्यर्थः, अनेन लक्ष्यत इतिकृत्वा उपयोगो लक्षणं जीवस्य भवति, अन्वयव्यतिरेकावबोध इत्यर्थः,तथा चागमः-'सबजीवाणंपि अणं अकवरस्म अणंतभागो निच्चुग्याडिओ'तीत्यादि ।
स हिविधोऽष्टचतुर्भेदः ॥९॥ सूत्रं ॥ म द्विविधोऽष्टचतुर्भेदः सूत्रान्तरं, सः उपयोगो द्विविधः सामान्येन, अष्टचतुर्भेदा विशेषत इति सूत्रसमुदायार्थः । अवयवार्थ लाह-'स उपयोग'इत्यादिना (पृ. ४१-१६) स उपयोगः अनन्तरोपन्यस्तो द्विविधो-द्विप्रकारः, कथमित्याह-साकारोनाकारश्च, आकारो विकल्पोऽर्थग्रहणपरिणाम इत्यनन्तरं, सहाकारेण साकारः, तद्विपरीतोऽनाकारः, चः समुच्चये, भावार्थमाहूज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः, विशेषावबोधो ज्ञानं सामान्याववोधो दर्शनं, स पुनरनन्तरोपन्यस्त उपयोगः यथासंख्यं यथानिदेशं अष्टचतुर्भेदो भवति, अष्टभेदश्चतुभेदश्च, पुनःशब्दः संख्यानियमार्थः, भेदान्तराभावाद् , अत एवाह-ज्ञानोपयांगो
निशादोऽन्ते |ऽष्टविध इत्यादि, मतिज्ञानोपयोगः-मतिज्ञानाकारपरिणामः तदात्मकत्वमात्मनः, एवं श्रुतज्ञानादिष्वपि योज्यं, इतिशब्दोऽन्ते |
॥११६॥ साकारोपयोगपरिसमात्यर्थः, एवं दर्शनोपयोगश्चतुभेदः, चक्षुर्दर्शनोपयोग इत्यादि, चक्षुरालोचनाकारपरिणामः आत्मन
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org