________________
nitting thani HDHE
game
श्रीतचार्थहरि०
परिणामिकाः
भव्यत्वं,सिद्धिगमनायोग्यस्त्वभव्यः, स एवाभव्यत्वं,इत्येवं जीवधर्मा एते त्रयः पारिणामिका भावा भवन्ति,न कर्मकृताः,किंतु स्वाभा-|| विका एव, 'आदिग्रहणं किमर्थ'मिति कोऽभिप्रायः-१ द्विनवाष्टादिसूत्रेण त्रिपंचाशद्भावभेदा निश्चिताश्च उक्ता एवेत्यनर्थकमादि| ग्रहणं,भावान्तरभावे च तत्सूत्रानर्थक्यमिति,अत्रोच्यते,द्विनवाष्टादिसूत्रेण साधारणा जीववर्तिनः एव भावभेदा उक्ताः,न सूत्रानर्थक्यं, जीवाजीवसाधारणापाद(णोपादा)नार्थ चादिग्रहणमित्यानर्थक्याभावः,अत एव साधारणभावभेदोपदर्शनार्यवाह वृत्तिकारः-'अस्तित्व'मित्यादि,अस्तित्वं सत्तारूपं अन्वयव्यतिरेकवद्धोधसिद्ध,अन्यत्वं परस्परतो जन्मादिप्रतिनियमसिद्धं, कर्मसिद्ध कर्तृत्वं,(भोतृत्वं)| शुभाशुभकर्मणः योगप्रयोगसिद्धं (गुणवच्चं प्रतिप्राणि ज्ञानदर्शनोपयोगसिद्धं असर्वगतत्वं देहमात्रचेतनासिद्धं ) अनादिकर्मसन्तानबद्धत्वं मुक्ताबंधाभावसिद्ध प्रदेशत्वं करादिसंगतद्भेदभावसिद्धं अरूपित्वं त्वदाहविज्ञानभस्माद्यभावसिद्ध, नित्यत्वं स्मरणादिभावसिद्धं, एवमादयो द्वितीयादिशब्दात् क्रियावचादिग्रहः, सान्निपातिकग्रह इत्यन्ये, तस्यापि प्रवचने पाठात् "उदइयखओवसमिश्र परिणामेकेक गतिचउकेऽवि। खयजोएणवि चउरो तदभावे उबसमेणंपि ॥१॥ उत्रसमसेढीऍ एक्को केवलिणो च्चिअ तहेब | सिद्धस्म । अविरुद्धमनिवाइअभेदा एमेव पण्णरस ॥ २॥" इत्यादि, अपिः समुच्चये, एवंप्रकाराश्च अनादिपारिणामिकाः | स्वाभाविका एवेत्यर्थः, जीवस्य भावा भवन्ति । धर्मादिभिरस्तिकायैः समानाः साधारणा इत्यादिग्रहणेन सूचिताः | सूत्रकारेण, सूत्रार्थनिगमनायाह-'य'इत्यादि, ये जीवस्य वैशेषिकाः, भावा इति वर्त्तते, ते स्वशब्देन जीवादिना स्वरूपवाचके| नवोकाः, इतिशब्दः सकलभावोपसंहारार्थः, एवमेते पंच भावाः प्रतिपदं य उद्दिष्टा औपशमिकादयः त्रिपंचाशद्भेदाः सम्यत्वचारित्राद्युत्तरभेदापेक्षया जीवस्य स्वतत्त्वं भवन्ति, (अस्तित्वादयश्च मु.) न परिकल्पितरूपा इत्यर्थः, अनन्तधात्मकत्वा
॥११५॥
॥११५॥
Jan Education Internatio
For Personal & Private Use Only
www.jainelibrary.org