SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ . श्रीतत्वार्थहरि० RCE तदश्रद्धानाभेदात्, अत एवाह-मिथ्यादृष्टिरिति, सर्वप्रकारैः सामान्येनैक एवेति, 'अज्ञान'मित्यादि, ज्ञानादन्यदज्ञानं, मिथ्या| त्वमोहनीययुक्तज्ञानावरणदर्शनावरणक्षयोपशमोत्थमेकभेदं, एवं सर्वत्र सम्यगनवबोधाद् , अत एवाह-'अज्ञानी'ति, सर्वसामान्ये 10 औदयिकाः नक एव 'असंयते'त्यादि असंयतचं संज्वलनवय॑कषायद्वादशकोदयात्, अत एकरूपं, असंयतोऽविरत इतिकृत्वा, असिद्धत्वे| त्यादि, असिद्धत्वं वेदनीयायुर्गोत्रनामकर्मोदयादनिष्ठितार्थत्वमेकभेदं, यदाह-'असिद्ध' इति,एकमेद इति कोऽर्थः ?, एकवि| धमिति, पर्यायकथनमिति सर्वभेदोपदर्शनार्थ, 'लेश्या'इति लिश्यन्त इति लेश्याः-आत्मना एकीभवन्तीत्यर्थः, एताः षड्भेदाः, | परिम्धूरद्रव्यमजातिभेदमधिकृत्य कृष्णलेश्येत्यादि, कृष्णा चासौ लेश्या च कृष्णलेश्या, एवं नीललेश्यादिष्वपि योज्यं. एताश्च | द्रव्यलेश्याः एवंभृताः, भावलेश्यास्त्वेतत्साचिव्यजाः क्लिष्टेतररूपाः आत्मपरिणामा एव,तथा चागमः-"जल्लेसाई दवाई आदियइ तल्लेसे परिणामे भवति" "कृष्णादिद्रव्यमाचिच्यात्,परिणामो य आत्मनः। स्फटिकस्येव तत्रायं,लेश्याशब्दः प्रयुज्यते॥१॥" इत्यादि, आसां च पप्णामपि लेश्यानां जम्बूवृक्षफलभक्षकपुरुषषदकदृष्टान्तेनागमप्रसिद्धेन प्रसिद्धिरापाद्या,एवं सर्वान् भेदान् आख्यायोपसंहरति-'एत' इत्यादिना, एते एकविंशतिः न न्यूना नाप्यधिका औदयिका भावाः कर्मोदयापेक्षा भवन्तीति तथा जीवस्वतवरूपा एव ।। उक्ता औदायिकभावभेदाः, साम्प्रतं पारिणामिकभावभेदाभिधानायाह जीवभव्याभव्यत्वादीनि चेति ॥ ७॥ मूत्रं ।। एवं चित्रो जीवस्य पारिणामिको भाव इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'जीवत्व'मित्यादि (पृ. ४१-४) जीवभावो जीवत्वं | |११४।। D स्वाधिके भावप्रत्ययः,जीव एव जीवत्वं-असंख्येयप्रदेशाः, चेतनेति, भव्या सिद्धिरस्येति भव्यः, उत्तरपदलोपाद् भीमादिवत् , स एव | ॥११४॥ JanEducation internati For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy