SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ॥। ११२ ।। Jain Education International C नोपन्यस्तस्तूताभिप्रायादिति, ज्ञानदर्शनादिभावात् सर्वदा, सर्वदा दानाग्रभावश्वेहान्यभावसापेक्षत्वात् निजौदयिकपरक्षा| योपशमिक भोग्यत्वाद्यपेक्षोपपत्तेरिति । उक्ताः क्षायिकाः, क्षायोपशमिकभेदाभिधानायाह ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५ ॥ सूत्रं ॥ ज्ञानं चाज्ञानं च दर्शनं च लब्धिश्वेति विग्रहः, एवं यथासङ्ख्यं चत्वारश्च त्रयश्च त्रयश्च पंच भेदा यासामिति विग्रहः, तथा सम्यक्त्वं च चारित्रं च संयमासंयमश्चेति विग्रहः, अशक्यप्रतिबन्धमन्यथा सूत्रमित्येवमुपन्यास इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह वृत्तिकृत्- 'ज्ञानं चतुर्भेद' मित्यादिना ग्रन्थेन (पृ. ४०-६) ज्ञानं चतुर्भेदमित्युद्देशो मतिज्ञानमित्यादि र्निर्देशः, मनःपर्यायज्ञानमित्यत्रेतिशब्दः क्षायोपशमिकज्ञानेयत्ताप्रतिपादनार्थः, केवलज्ञानस्य क्षायिकत्वात्, अज्ञानं त्रिभेदमित्युद्दशः, मत्यज्ञानादिस्तु निर्देशः, मिथ्यादर्शनसहचरितं ज्ञानमज्ञानमुच्यते, कुत्सितत्वात् सत्कार्याकरणाद् अशीलवद् अपुत्रवद्वेति, विभङ्गज्ञानमवधिप्रतिपक्षी, मिथ्यादृष्टेः भङ्गः प्रकारः, कुत्सायां विरुपसर्गः, विगर्हितं भङ्ग विभङ्गं विभंगं च तज्ज्ञानं चेति समासः, इतिः पूर्ववत्, दर्शनं त्रिभेदमित्युद्देशः, चक्षुर्दर्शनमित्यादिस्तु निर्देशः, तत्र (चक्षुर्दर्शनं ) चक्षुर्दर्शनावरणीयकर्मक्षयोपशमतः अवबोधव्यापृतिमात्रसारं सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्ममतिज्ञानावरणक्षयोपशमसंभृतं सामान्यमात्रग्राह्मवग्रह व्यंग्यं स्कन्धावारोपयोगवत्, एवमचक्षुर्दर्शनं | शेषेन्द्रियोपलब्धिलक्षणं, एवमवधिदर्शनमपीति, दर्शनावरणक्षयोपशमजमिति, यथोदितमेव, अन्यथा अवग्रहदर्शनाभ्युपगमे तस्य ज्ञानभेदत्वे दर्शनाभावप्रसङ्गात् इतिशब्दः क्षायोपशमिकदर्शनेयत्ताख्यापनपरः, केवलदर्शनस्य क्षायिकत्वादिति, लब्धयः पचविधा इत्युपन्यासः, दानलब्धिरित्यादिना तु तनिर्देशः, क्षायोपशमिक्य एता इति पूर्वसूत्राद्भेदेनामिधानं, तासां स्वविषये For Personal & Private Use Only क्षायोपशमिकभेदाः ॥ ११२ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy