________________
श्री तवार्थहरि०
२ अध्या०
॥११०॥
Jain Education International
farargrafवंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ सूत्रं ॥
च नव चेत्यादिर्द्वन्द्वः पश्वाद् बहुबीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते तथेति समासः, 'यथाक्रम' मिति पूर्वसूत्रोपन्यासक्रमेण, न त्वेकैकस्यैते समस्तानां वेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकार:- 'एते' इत्यादिना (पृ.३९-८), एते अनन्तरोक्ताः औपशमिकादयः पञ्च भावाः - भवनलक्षणाः, किमित्याह - द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति, 'तथे 'त्युपन्यासार्थः, औपशमिकः उक्तलक्षणः द्विभेदो वक्ष्यमाणेन भेदेनेत्यादि निगदसिद्धं यावद्येन सूत्रक्रमेणेति येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे' इत्यादिना अत ऊर्ध्वभित्यस्मात् सूत्रादुपरिष्टाद्वक्ष्यानो - भणिष्यामस्तेन क्रमेणौपशमिका| दिभेदा द्रष्टव्या इति ॥ अधुनैतानेव दर्शयन्नाह - 'तद्यथे'त्युपन्यासार्थः,
सम्यक्त्वचारित्रे इति ॥ ३ ॥ सूत्रं ॥
सम्यक्त्वम् उक्तलक्षणं प्रथमेऽध्याये चारित्रं तु नवमेऽध्यायेऽग्रे वक्ष्यते ते एते औपशमिके अपि भवत इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'सम्यक्त्वं' तचरुचिरूपं 'चारित्र' सावद्य विरतिरूपं, चः समुच्चये, द्वावेतौ भेदावोपशमिको भावौ भवतः, एतावेव, न त्वेतावौपशमिकावेव, एतद्भेदयोरेव सामान्यतः क्षायोपशमिकादिभावात्, आह-क उपशमक्षयोपशमयोर्भेदः ?, उच्यते, क्षयोपशमे ह्युपशान्तस्याप्युदयोऽस्ति, प्रदेशतया कर्मणो वेदनात् न चासावभिघाताय, विपाकाभावात् उपशमे | प्रदेशकम्र्मानुभावो नास्तीत्यं भेदः, तथा चागमः - " से णूणं भंते ! पोरइअस्स वा मणुअस्स वा देवस्स वा जे कडे कम्मे | णत्थि णं तस्स अवेदइत्ता मोक्खो ?, हंता गोयमा ! एवं, से केणट्टेणं भंते ! एवं वृच्चइ ?- एवं खलु गोयमा ! मए दुविहे कम्मे
For Personal & Private Use Only
भावभेदसंख्या औपशमिको
॥११०॥
www.jainelibrary.org