________________
'अथे'त्युपन्यासार्थः पञ्चानां ज्ञानानां मत्यादीनां सविपर्ययाणां सह विपर्ययेण--अज्ञानस्वभावेन यानि वर्तन्ते तेषां कानि श्रीतस्वार्थ
प्रमाणनया: मत्यादीनि को नयो नैगमादिः श्रयते अभ्युपगच्छतीति, अत्रोच्यते, नैगमे त्यादि, नैगमादयस्तु य आद्या एव-नैगमसंग्रहहरि०
व्यवहाराः सर्वाणि मत्यादीनि श्रयन्ते, कानीत्याह-अष्टौ मतिज्ञानं मत्यज्ञानमित्यादिना प्रकारेण पंच ज्ञानानि त्रयो विपर्यया । इतिकृत्वा श्रयन्ते-अभ्युपगच्छन्ति, यतः सर्वाण्येव तान्यर्थ परिच्छिदंति, 'ऋजुसूत्रनयो मतिमत्यज्ञानविवर्जितानि षट् । श्रयत' इति, अत्राह परः-कस्मात् मतिमुक्तलक्षणां सविपर्ययां मत्यज्ञानसहितां न श्रयति---नेच्छति ?, अत्रोच्यते, श्रुतस्य-श्रुतज्ञानस्य सविपर्ययस्य श्रुतावानसहितस्य उपग्रहत्वात् उपकारकत्वात् , मतिमत्यज्ञाने श्रुतस्य श्रुताज्ञानसहितस्य | उपग्रहं कुरुते, तत्कार्यभूतत्वात् श्रुतस्य, फलप्रधानश्चैष नय इत्यभिप्रायः । शन्दनयः पुनर्भावार्थावलम्बी द्वे एव,के ते इत्याहश्रुतज्ञानकेवलज्ञाने श्रयते-अभ्युपैति,अत्राह-अथ कस्मातराणि-मत्यादीनि श्रयत इति, अनोच्यते-मत्यवधिमनःपर्यायाणां त्रयाणामपि, किमित्याह-श्रुतस्यैवोपग्रहत्वात्-उपकारकत्वादिति, नात्मानमात्मना प्रतिपादयितुं क्षमाण्येतानि, मूककल्पत्वात् , श्रुतेन तु प्रतिपाद्यत इति श्रुतमुपकारकमेषां, उपकारि च श्रेयो जघन्यमुपकार्यमित्यधिकृतनयाभिप्रायः, केवलज्ञानं |तु प्रधानमन्येनानुपकार्य स्वसामर्थेनैव च प्रवर्तितवागयोगमिति श्रयते, विपर्ययानाश्रयणे तु कारणमाह--'चेतने 'त्यादि,
चेतना-जीवत्वं परिच्छेदत्वसामान्यं गृह्यते ज्ञ इत्यनेन तु विशेषपरिच्छेदिता, तयोश्चेतनाज्ञयोः स्वाभाव्यं तथाभवनं तस्माच्च चेत॥१०६॥ नाज्ञस्वाभाव्याच सर्वजीवानां-पृथिवीकायिकादीनां नास्य नयस्य कश्चिन्मिध्याहृष्टिरज्ञो वैकान्तेन जीवो विद्यते,यथाTOMARATHI
| वस्थितस्पर्शादिपरिच्छेदात् , आगमोऽपि किलैवमेव व्यवस्थितः 'मबजीवाणपि अणं अक्वरस्म अणंतभागो णिच्चुग्घाडिओ'त्ति
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org