________________
श्रीतत्वार्थ
हरि०
आकारणप्रतीतिः
इत्याकारिते भवस्थ एव जीव इति प्रतीयते, प्रतिषेधद्वयस्य प्रकृतगमकत्वाद् , देशप्रदेशानभ्युपगमे कारणमाह-'समग्रार्थ'त्यादिना, 0 | समग्रः-सम्पूर्णः अथों-वस्तु समग्रार्थ ग्रहीतुं शीलमस्येति विग्रहस्तद्भावः तस्मात् , अस्य नयस्यैवंभूतस्य नानेन-एवंभूतनयेन || | देशप्रदेशो-स्थूलसूक्ष्मावयवौ गृह्यते इति, एवमेकवचनेन चत्वारो विकल्पा दर्शिताः, एवं द्विवचनबहुवचनाभ्यामपि द्रष्टव्या * इत्यभिधातुमाह-एवं जीवो जीवा' इति, द्वित्वबहुत्वाकारितेष्वपि चत्वारो विकल्पाः, तद्यथा-जीवी नोजीवौ अजीबो नोअजीवौ, बहुवचनेऽपि जीवाः नोजीवाः अजीवा नोअजीवा इति, एकवचन द्वित्वबहुत्वाकारितेष्यप्येवमेवाभ्युपगमो नेगमादीनामि| त्यर्थः, सर्वसंग्रहमधिकृत्याह-'सर्वसंग्रह'त्यादि, सर्वसंग्रहेण तु नयेन-सामान्यवस्तुग्राहिणा जीवो नोजीव इत्यादि एकवचनद्विवचनानां विकल्पा नेष्यन्ते, अस्य ह्येवंभूतं वस्तु शुन्यं-प्रतिपत्यगोचरः, कस्मादित्याह-एष ही'त्यादि, एष यस्मान्नयः संख्यानन्त्याज्जीवानां बहुत्वमेवे(च्छती)ति प्रतीयते, 'यभाग्राही'ति नैकवचन द्विवचनार्थः इह विद्यत इत्यभिप्रायः, चित्र-0 मतश्चैष इत्येवमविरोधः,अयं विशेषोऽनेन प्रतिपनो देशसंग्रहव्यवहारादिभ्य इति भावना पूर्ववत् , 'शेषास्त्वित्यादि,शेषास्तु नैगमादयो नयाः जात्यपेक्षमेकस्मिन्नेव जीवादौ बहुवचनमिच्छंति, कथमित्याह-'जात्यपेक्षं' जातिम्-सामान्यरूपामपेक्षते यत्तआत्यपेक्षं बहुवचनं, जातेरनेकाश्रयत्वात् , जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां (पा.१-२-५८) बहुवचनात् बहुषु चैकवचनं जात्यपेक्षमेवेति, सर्वाकारितग्राहिण' इति सर्ववचनादिभिराकारितान्-उच्चारितान् अनेकान विकल्पान् गृहंति तच्छीलाश्चेति सर्वाकारितग्राहिण इति एतन्मतसमाप्त्यर्थः, 'एच'मित्यादि, एवं सर्वभावेषु-धर्मास्तिकायादिषु नयवादेनानु(धि.मु.)गमः अनुस- D रणलक्षणः कार्यः इत्यतिदेश एपः। एवं प्रमेयनयानुगम उक्तः,साम्प्रतं प्रमाणमधिकृत्यैनमभिधातुं चोदकद्वारेणाह-'अत्राहे'त्यादि,
॥१५॥
eull
Jan Education
For Personal Private Use Only
www.jainelibrary.org