SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० | णसंप्लवव्यच्छेदमाह, प्रतीतिभेदानुभूतेर्वैग्यधिकरण्यव्यवच्छेदं च, तथा तथा अन्यनुभवोपपत्तेः, न चे'त्यादि, नच ता ज्वलद्भा नयलक्ष| स्वदाकारादिलक्षणाः प्रतिपत्तयो विप्रतिपत्तयो भवन्ति, सर्वाभिरपि तथा तत्परिच्छेदात् , तथा अनुभवसिद्धेः, तनयवादा, णार्याः इति न विप्रतिपत्तयः, एतदुक्तं भवति-एकानेकस्वभावे वस्तुनि सनिबन्धनोऽयं सकलव्यवहारः सर्वथैकस्वभावे त्वनिबन्धन इत्यत्याज्य एव, प्रत्यक्षादिज्ञानाभेदप्रसङ्गात् , सर्वथैकालम्बनत्वापत्तेः,निर्विषयत्वे चातिप्रसङ्गात् ,सङ्ख्यादिनियमत्वानुपपत्तेरिति प्रपश्चितमेतदन्यत्रेति नेह प्रयासः, अभिहितमेवार्थ पूर्वाचार्यबहुमतोऽयमिति तत् संगृह्याभिरुपप्रदर्शयन्नाह-'आह चेत्यादि, | आह च कमिन्-'नैगमे त्यादि, नैगमशब्दार्थानामिति निगमा-जनपदाः तत्र भवाः नैगमाः-शब्दा अर्थाश्च तेषामेकानेका|र्थनयगमापेक्ष इति, एको-विशेषः एकत्वात् अनेक-सामान्यमनेकाश्रितत्वात् तावेव अर्थावर्यमाणत्वात् ,तथा नयगमः-परि-| | छेदप्रकारः तमपेक्षते-अभ्युपैति यः स तथाविधः, अमुमेवार्थ पूर्वाचार्यवाचोयुत्तथाऽनुस्मारयन्नाह–'देशसमग्रमाहीति देशो| विशेषः समग्रं--सामान्य तयोर्लाही-आश्रयति, 'व्यवहारी'ति व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तीति | व्यवहारी 'नैगमो ज्ञेयः' नैगमनयो ज्ञातव्य इति ।। संग्रहार्यामाह-'यत् सङ्गृहीतवचन'मित्यादि,यदिति ज्ञानं सम्बध्यते, | कीदृशं तदित्याह-'संगृहीतवचनं' संगृहीतं-सामान्यं तदेवोच्यत इति वचनं, ततश्च संगृहीतं वचनं यस्य ज्ञानस्य तत् संगृही| तवचनं, सामान्यज्ञानमित्यर्थः, एतच्च सामान्ये सत्तायां देशतः प्रक्रमात गोत्वादेरेतद्देशात् विशेषाच्च खण्डादेः अपोह्येति || | शेषः, तद्व्यतिरेकेण तदभावात् , तदसच्चप्रसङ्गात् , एवंभूतं यद् ज्ञानं तत् संग्रहनयसंझं-संग्रहनयनियतं विद्यात् जानीयात् | | ॥१०२॥ | 'नयविधिज्ञो' नयभेदवित् २॥ व्यवहारार्या त्वियं-'समुदाये'त्यादि,समुदायः-संघातः,व्यक्तिः-मनुष्यत्वं,आकृतिः-संस्थानं, ॥१०॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy