SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० 1180011 Jain Education International वितर्कः श्रुतं तत्प्रधानं ध्यानं वितर्कध्यानं तद्वत् एतच्चैकत्ववितर्क द्वितीयमिह गृह्यते इत्यध्यवसायः समभिरूढ इति । 'तेषामेवे'त्यादि, 'तेषामेव' अनन्तरनयपरिगृहीतघटादीनां यो व्यञ्जनार्थं तयोर्व्यञ्जनार्थयोरन्योऽन्यापेक्षार्थग्राहित्व मिति स्वप्रवृत्तिनिमित्तभावेन यथा व्यञ्जनं तथाऽर्थो यथाऽर्थः तथा व्यञ्जनम्, एवं हि सति वाच्यवाचकसम्बन्धो, नान्यथा, पुष्टप्रवृत्तिनिमितभावेनेत्यध्यवसाय एवंभूत इति । इह चाभ्यवमायो ज्ञाननय उस साधावाधिकारात् ज्ञेयः अस्यार्थनयः, वाचकस्तु शब्दनय इत्येवमवगन्तव्यमिति । 'अत्राहे 'त्यादि एवमुक्तनीत्या ( इदानीं ) एकस्मिन्नर्थे घटादौ अध्यवसायनानात्वात् विज्ञानभेदात् ननु विप्रतिपत्तिप्रसङ्ग इति, ननुशब्दो मीमांसायां मीमांसनीयमेतत् एवं विप्रतिपत्तिप्रसंग इति| विरुद्धा प्रतिपत्तिविप्रतिपत्तिः तस्याः प्रसङ्गोऽनिष्टमित्यर्थः, न ह्येकनिमित्ताः अनेकाः प्रतिपत्तयो भवितुमर्हन्ति, कृष्णे नीलादिप्रतिपत्तय इवेत्यभिप्रायः एवं पूर्वपक्षमाशङ्कयाह - ' अत्रोच्यत' इत्यादिना, अत्र विरुद्धाः प्रतिपत्तिः, न चैकान्तेनैकनिमित्ता अतः साध्ध्येवेति यथेत्यादिना दर्शयति, यथा सर्वं जगदनेकावयवात्मकमपि सत् एकं कुत इत्याह- 'सदविशेषात्' सच्चेनाभेदात्, | अविशेषेण सच्छब्दवदिति प्रतीतिसिद्धेः, एवं सर्वं द्वित्वं द्वयोर्भावो द्वित्वं जीवाजीवात्मकत्वात् सर्वस्य, तथोभयभेदश्च प्रतीतिभेदात्, न हि सत्प्रतीतिमात्रं जीवादिप्रतीतेरिति, एवं सर्वं त्रित्वं त्रयाणां भावः त्रित्वं द्रव्यगुणपर्यायावरोधात् सर्वस्य, इहान्वयि द्रव्यं, गुणा-रूपादयः, पर्यायाः कपालादयः इति प्रतीतिः, अत्रापि भेदनिमित्तमिति त्रिषु सर्वस्यावरोधः, एवं सर्वं चतुष्क, चतुर्णां भावः चतुष्कं चतुर्दर्शनावरोधात् सर्वस्य, चक्षुर्दर्शनादीनि चत्वारि दर्शनानि तैः सर्वस्यावरोधो-ग्रहणं, विशेषाणामपि कथंचित् सामान्यभेदादिति, एवं सवं पञ्चत्वं पंचानां भावः अस्तिकायावरोधात् सर्वस्य पंचभिरस्तिकायैर्धर्मादिभिरविरुद्ध For Personal & Private Use Only विप्रतिपत्तिनिरासः ॥१००॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy