________________
श्रीतचार्थ- हरि०
उत्तरगुणनिर्वर्तनया-आपाकजरक्ततादिगुणपरिसमाप्त्या निवृत्तो निष्पन्नः द्रव्यविशेष इति मृद्रव्यभेदः, तस्मिन्नवमा-|| त्मके एकस्मिन्नेव विशेषवति शुक्लपीतादिविशेषयुक्ते तजातीयेषु वा तत्प्रकारेषु वा सर्वेष्वविशेषाद् अभेदन सामान्येन || ज्ञेयनयाः परिज्ञानम् -अवबोधो नगमः,तथा एकस्मिन् घटे बहुषु घटेषु 'नामादिविशेषितविति नामस्थापनाद्रव्यभावविशिष्टेषु साम्प्रतेषु-वर्तमानेषु अतीतेपु-अतिक्रान्तेषु अनागतेषु-भाविषु घटेषु सम्प्रत्ययो घट इति सामान्याध्यवसायः सङ्ग्रहः, सामान्यप्रधानत्वादिति, एवं तेष्वेव घटेषु एकद्विबहुनामादिरूपेषु 'लौकिकपरीक्षकग्राह्येषु' लोके विदिता लौकिकाः अव्युत्पन्नमतयः परीक्षकास्तु-शास्त्रव्युत्पन्नमतय इति, एतद्ग्राह्येषु तत्फलार्थमविप्रतिपन्नाः, उपचारगम्येष्वि'ति समुद्रो घट इत्यादिनीतेयथास्थूलार्थेविति सूक्ष्मसामान्यव्यपोहेन सम्प्रत्ययो घट इत्यध्यवसायो व्यवहारो विशेषप्रधानत्वादिति,तथा तेष्वेवे'त्यादि, | तेष्वेव घटेषु 'सत्सु' विद्यमानेषु (साम्प्रतेषु-वर्तमानेषु) सम्प्रत्ययो घट इत्यध्यवसायः ऋजूसूत्रः । एवं 'तेष्वि'त्यादि, तेष्वेव || साम्प्रतेषु वर्तमानेषु 'नामादीनां' नामस्थापनाद्रव्यभावानामन्गतमग्राहिषु यस्माद्यस्य शब्दस्य नम्यमानः पदार्थो वाच्यः न | तस्य स्थापना न तस्य द्रव्यं न तस्य भाव इत्यतो नामादीनां घटानां ये शब्दा अन्यतमं नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु, एतेष्वपि प्रसिद्धपूर्वकेषु' प्रसिद्धः पूर्वो येषां प्रथमसङ्केतस्ते प्रसिद्धपूर्वाः त एव प्रसिद्धपूर्वकाः तेपु, नामादीनामन्यतमवाचकेषु,सम्प्रत्ययस्तथा घट इत्यध्यवसायः साम्प्रतः,शब्दः सामान्य इत्यर्थः,एवं 'एतेषा'मित्यादि,तेपामेव घटादीनां साम्प्रतानां-वर्तमानावधिकानां सम्बन्धी 'अध्यवसायासक्रमः' अध्यवसायो-ज्ञानं तदुत्पादकमभिधानमप्यध्यवसायः तस्यासक्रमः
॥९९॥ अन्यत्र वाच्ये अप्रवृत्तिः, न हि घटादिभेदेन कुट उच्यते, भिन्नप्रवृत्तनिमित्तत्वात् , इहैव निदर्शनमाह-'वितध्यानवदिति,
॥९९॥
JanEducation.international
For Personal