________________
श्रीतच्वार्थहरि०
नया.अध्यवसायाः
निर्भासकाः, एवमुपलम्भयन्ति ताँस्तान् सूक्ष्मान् अर्थविशेषानित्युपलम्भकाः, एवं व्यञ्जयन्ति-स्पष्टयन्ति तथा तथा | स्वाभिप्रायेण वस्त्विति व्यञ्जकाः 'इत्यनान्तर 'मिति कथंचिद्भदे सत्यपि पर्यायभेदा एत इत्यर्थः, सकर्मकाणां प्राप्येन कर्मणा भवितव्यमिति तदर्शयन्नाह-जीवादीन् सप्त पदार्थान् प्रागुद्दिष्टान् नयन्ति इति नयाः, तद्धा एवं सन्तस्तानेव नयन्ते, अनेककतकरणानां वास्तवं न्यायमधिकृत्य कथंचिद्भेदमाह, इत्यत्र यहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति, | 'अत्राहेति पूर्ववत् , किमेते नैगमादयो नयास्तन्त्रान्तरीयाः तन्यन्ते-विस्तार्यन्ते अर्था अनेनास्मिन्निति वा तन्त्र-प्रवचनं तस्मा| दन्यत् कापिलादि तन्त्रान्तरं तसिन् भवाः कुशला वा तन्त्रान्तरीया वादिनः स्वशास्वसिद्धार्थवदनेन,आहोस्विदिन्युत स्वतंत्रा एव 'चोदकपक्षग्राहिण इति' दुरुक्तादीनि चोइयतीति चोदकः तस्य पक्षो विषयः तं ग्रहीतुं शीला इति, मतिभेदो-बुद्धिभेदस्तेन विप्रधाविताः अयथार्थनिरूपका इति, एतत्परिहारार्थमाह 'अत्रोच्यते' इत्यादि, न एते तन्त्रान्तरीयाः, ते हि निविषया एव, अवधारणदोषात , नापि स्वतन्त्रा एव चोदकपक्षग्राहिणः मतिभेदन विप्रधाविताः, तदसम्बद्धालापित्वादिति, 'ज्ञेयस्ये'. | त्यादि, ज्ञेयस्यार्थस्य जीवादिघटादः अध्यवसायान्तराण्येवैतानि, विज्ञानभेदा इत्यर्थः, वाच्यं ज्ञेयमधिकृत्यैतदुपदर्शयन्नाह-तद्यथेति | पूर्ववत् घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते 'योऽप्ताविति यो लोकप्रसिद्धः 'चेष्टाभिनिवृत्तः' इति कुलालादिचेष्टानिष्पा|दितः, किमाकार इत्याह-'ऊर्ध्वकुण्डलोष्ठायतवृत्तग्रीवः' ऊर्ध्वकुण्डलोष्ठश्चासावायतश्च वृत्तग्रीवश्चति समासः,तथा चोवं | | परिकुण्डलं वृत्तावौष्ठौ यस्य एवं आयता-दीर्घा वृत्ता-समपरिधि ग्रीवेति, तथा अधस्ताद्-अधोभागे परिमण्डलोवृत्तः, एवं जलक्षीरादीनां आहरणधारणसमर्थः, आहरणं देशाद्देशान्तरसंचारणं, धारणं तेपामेव देशनियतं, एतत्प्रत्यल
॥९८॥
।। ९८॥
Jan Education international
For Personal & Private Use Only