________________
थकाः
दादिति । इत्थम्भूतलक्षणं त्वदः 'व्यजनार्थयोरेवंभूत' इति व्यजनं-शब्दः तदभिधेयोऽर्थः तयोव्य अनार्थयोः एवं पर्यायाश्रीतच्चार्थ-I8 भाववद्वाच्यवाचकप्रवृत्तिनिमित्तभावे भूतो यथार्थ एवंभूत इति, यथा घटशब्दो न कुटार्थवाचकः, प्रवृत्तिनिमित्ताभावात् , एवं नाहरि० चेष्टावदर्थवाचकोऽप्यत एव हेतोः, अर्थोऽपि तक्रियाशून्यो न स इति, तथा अर्यमाणत्वाभावात् , अतो यदैव योषिन्मस्तकाधिरूढो
जलाद्यानयनाय चेष्टते तदैव घटः, घटवाचकोऽपि घटशब्दोऽस्य तदैवेत्यध्यवसाय एवम्भृतः । एतानि वाक्यानि सूत्राणि
इति केचित् , तत्तु न, वृत्त्यभावात् , तन्नयलक्षणवाक्यान्येवेति । उक्तं नयलक्षणं, एतेषां चाद्याश्चत्वारोऽर्थनयाः, अर्थग्रRधानत्वाच्छब्दोपसर्जनाः, शेषास्तु शब्दनयाः, शब्दप्रधानत्वात् अर्थोपसर्जना इति । 'अबाहे'त्यादि, अत्रावकाशे यथोदितगृहीत
| नयस्वरूपश्चोदक आह. 'उद्दिष्टा' अभिहिता लक्षणतः 'भवता' त्वया नैगमादयो नयाः, 'तन्नया इति कः शब्दार्थ (पदार्थः ।। | मु.) इति, तन्नया इति लौकिकवाचोयुक्तिः, तद्राजा कीदृश इति यथा, इह नयाः शब्द नया गृह्यन्ते,यदाह-नया इत्यस्य कः पदार्थ | इति, तदस्य पदार्थत्वोपपत्तेः, कोऽर्थ इति वा, अनभिधानं गम्यार्थव्यपोहेन वाच्यार्थसंग्रहार्थं, कः पदार्थ इति को वाच्यो|ऽर्थः ?, अनेककारक्रमन्निधाने सति कः प्रत्ययाथों ग्राह्य इति प्रश्ननिमित्तं,एवं चोदकेन प्रश्ने कृते सत्याचार्य आह-'तत्रोच्यत' इत्यादि, नयाः प्रापका इत्यादिना कर्थः प्रदर्शने, नयन्त इति नयाः, मामान्यादिरूपेणार्थ प्रकाशयन्तीत्यर्थः, प्रापका इत्यनेन | नयतेरंतनातन्यर्थता व्याप्यते, प्रापयन्न्यात्मनि तं तमर्थ म्वाभिमताभिरुपपत्तिभिरिति प्रापकाः, कारका इत्यादिमिस्तु नयतेर्थान्तरतापि भवति, अनेकार्थत्वाद् धातूनामिति दर्शयति,कुर्वन्ति तद्विज्ञानमात्मन इति कारकाः, एवं साधयन्ति तं तमात्मीयं |
|0|॥२७॥ | योगिनमिति माधकाः, एवं निवर्तयन्ति तथा आत्मानमिति निर्वतकाः, एवं निर्भासयन्ति--दीपयन्ति वाम्बा व्यक्तिमिति
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org