SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नयभेदाः 'आद्य' इत्यादिना (पृ. ३२-१०) ग्रन्थेन,आद्य इति सूत्रक्रमप्रामाण्यात् यथोपन्यस्तात् नैगमसंग्रहेत्यादिपाठात् नैगममयं ब्रवीति, श्रीतच्चार्थ-IN स द्विभेदः,असौ यो नैगमः द्विमेदः द्वौ भेदौ अस्येति द्विभेदः,मेदावेवाह-'देशपरिक्षेपी च,सर्वपरिक्षेपी च' देशः-विशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शीलमस्येति देशपरिक्षेपी,विशेषग्राहीत्यर्थः,मर्व-सामान्यं तद्व्यापित्वात् तत् परिक्षेप्तुं शीलमस्येति सर्वपरिक्षेपी,सामान्यग्राहीत्यर्थः,चशब्दौ पृथक्पृथकस्वातन्त्र्यख्यापनपरौ,अस्येति (नगमस्य,स) द्विभेदः,शब्दनयः व्यंशः,तानाह| 'साम्पते'त्यादिना, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, नानार्थसममिरोहणात समभिरूदः, यथाभूतः-एवम्भृतोऽन्वर्थप्रधानत्वात् , इति समुच्चये परिसमाप्तौ वा, अत्राहे'त्यादि अत्राधिकारे आह परः,किमेषां नैगमादीनां लक्षणमिति,प्रश्नोत्तराभिधित्सयाऽऽह४ा'अनोच्यते निगमेखित्यादि,निश्चयेन गम्यते उच्चायते प्रयुज्यते येषु शब्दास्ते निगमा जनपदास्तेषु निगमेषु-जनपदेपु येऽभि-11 |हिताः उच्चारिताः शब्दा-घटादयस्तेपामर्था-जलाधानयनार्थक्रियासमर्था घटादय एय, शब्दार्थप्रतिज्ञानं च वाच्यवाचकभावेन, सोऽयमिन्थं प्रपञ्चः,किमित्याह-'देशसमग्रग्राही नैगम इति देशो-विशेषः देशत्वादेव ममग्रं-सामान्यं समग्रव्याप्तेः एतद्ग्राही |नगमः,सौवर्णो घटः घट इति च ग्रहणात् ,उभयग्रहणेऽपि नय एव,स्वविषयप्राधान्यदिति । संग्रहलक्षणमाह 'अर्थाना'मित्यादिना, | अर्थानां घटादीनां सर्वैकदेशसंग्रहणं संग्रहः, सर्व-सामान्यं सर्वव्याप्तेः देशो-विशेषः देशत्वादेव, तयोः सर्वकदेशयोः सामान्य-1 विशेषात्मकयोः एकीभावेन संग्रहणं महः, सन्मात्राविशेषात् तदतिरिक्तवस्त्वभावादिति । व्यवहारलक्षणाभिधित्सया त्वाह 'लौं |किके'त्यादि, लोके मनुष्यादिस्वभावे ये विदितास्ते लौकिकाः-पुरुषाः तैः समः-तुल्यः, यथा चैते विशेषा(न् ) व्यवहरन्ति ॥१५॥ है तथाध्यमपीति 'उपचारप्रायः' उपचारपडुलः, अन्यत्र मिद्धस्यार्थस्यान्यत्राध्यारोप उपचारः यथा कृण्डिका श्रवति | ॥१५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy