________________
श्रीतवार्थ
ज्ञानसहभाव
हरि०
युगपदेकस्मिन् काले एकस्मिन् जीवे प्रभातरि कति भवन्तीति प्रश्नः, अत्रोच्यते इति निर्वचनोपन्यासः।
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ३१ ॥ सूत्रं ॥ | निर्वचनक्षत्र,प्रथमादीनि विकल्प्यानि एकस्मिन् काले एकस्मिन् प्राणिनि चत्वारि यावद् ,आडोमिविधिवाचकादिति सूत्रसमुदायार्थः। एनमेवोपदर्शयन्नाह भाष्यकारः-'एषां मत्यादीनां ज्ञानानां' एतद्विचाराधिकारात् प्रस्तुतानां आदित आरभ्य एकादीनि | भाज्यानि युगपदेकस्मिन् जीवे प्रमातरि आ चतुर्य इत्यभिविधावाङ्,एतदेव स्पष्ट पाह-'कस्मिंश्चि'दित्यादि (पृ.२७-३) कस्मिंश्विजीवे मनुष्यादौ मत्यादीनां पञ्चानां ज्ञानानां एकं भवति, आद्यं मतिज्ञानमेव,एतच्च कचिनिसर्गसम्यग्दर्शनस्यानवाप्ताक्षरथुतेः निसर्गतः प्रवचनमातृमात्रपरिज्ञानवति दृश्य, तथा कस्मिंश्चिद् (जीवे मु.) द्वे भवतः मतिश्रुते,एते अपि सम्यग्दशनवत्यवाप्ताक्षरथुते दृश्ये, तथा कस्मिंश्चित् त्रीणि भवन्ति, मतिश्रुतावधीनि, प्राक्तने (द्वये) एवावधिसमुत्पत्तेः, तथा कस्मि|श्विञ्चत्वारीति मतिश्रुतावधिमनःपर्यायाणि, ज्ञानत्रयवति मनःपर्यापोत्पनौ, आह गतिशुदयोगपल्लाभ उक्तः नद कथ प्रतिज्ञानमेकं भवति?,उच्यते, युगपल्लाभेऽपि तदुपयोगयोभिन्नप्रकारत्वात् , तदुपयोगमधिकृत्यान्यापूर्वकत्वान्मतिज्ञानमेवैकं भवति, श्रुतज्ञानमप्येवं न किमिति चेदित्याह-'श्रुतज्ञानस्य स्वि'त्यादि,श्रुतज्ञानस्य पुनः-ग्रन्थानुसायुपयोगरूपस्य 'मतिज्ञानेन' यथोदितरूपेण नियतो निश्चितः सहभावः- एकत्रवृत्तिः, कुत इत्याह-तत्पूर्वकत्वात्-मतिज्ञानपूर्वकत्वादिति, एतदेव स्पष्टयति 'यस्येत्यादिना, यस्य जन्तोः श्रुतज्ञानं श्रुतानुसार्यस्ति तस्य नियतम्-अवश्यं मतिज्ञानं यथोक्तलक्षणं सम्भवति, यस्य । | पुनर्मविज्ञानं केवलं निसर्गसम्यग्दर्शनकाले अनवाप्ताक्षरश्रुतस्य तस्यैवंभूतस्य श्रुतज्ञानं ग्रन्धानुसारि स्यादुत्तरकालं पठतो
॥८९॥
||
JanEducation.international
For Personal
e