________________
श्रीतधार्थ
| अवधिमनः पर्याययो
हरि०
भेंद:
कमिन्नसङ्ख्येयभागमात्रे क्षेत्र यावन्ति रूपिद्रव्याणि समवगाढानि मवस्तोकानि यः पश्यति ततः स एव वर्द्धमानेन तेन बहूनि बहुतराणि द्रव्याण्यवगच्छतियावत् , मर्वलोकावस्थितानि द्रव्याणि पश्यति शुभाध्यवसायविशेषादिति, एतदाह-'अनुलस्यासख्येयभागादिपुत्पन्नं भवत्यासर्वलोकादिति, मनःपर्यायज्ञानं, तुशब्दः पुनःशब्दार्थः, मनुष्यक्षेत्र एवं अर्द्धततीयद्वीपसमुद्रपरिमाणे भवति, नान्यक्षेत्र इति---सौधर्मादौ अन्यक्षेत्रे एव, न अन्यक्षेत्रजमनःपर्याप्तिमन्प्राणिविषयं तु, मनुव्यलोक एव भवतीति क्षेत्रग्रहणं, 'किं चान्यत्-स्वामिकृत' इत्यादि पूर्ववत् , अवधिज्ञानमवधिकृतं संयतस्य-माधोः विरतस्यासंयतस्य अविरतस्य संयतासंयतस्य-विरताविरतम्य श्रावकस्य मर्वगतिप नारकादिषु चतसृष्वपि भवति, मनःपर्यायज्ञानं
पुनर्मनुष्यसंयतस्यैव भवति, मनुष्यग्रहणानारकादिव्युदासः, संयतग्रहणान्मिध्यादृष्टयादीनां प्रमत्तांतानां पण्णां व्युदासः, एवकापारेण नियमयति--मनुष्यसंयतस्यैव, फलं नियमस्य दर्शयति-'नान्यस्येति देवादेः नतदुत्पद्यत इत्यर्थः, 'किंचान्यत् विषयकृत'
इत्यादि, रूपिषु परमाणुद्रव्येषु सर्वेषु 'असर्वपर्यायेष्विति सर्वे-सम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न मर्वपर्यायाणि असर्वपर्यायाणि नेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति, न तु तेषां सर्वान् पर्यायान् इति, एकैकस्य तु परमाणोः | कदाचिदसङ्ख्येयान कदाचित् संख्येयान् पर्यायान् जानाति, कदाचिजघन्येन चतुरो रूपरसगन्धस्पर्शान् , न पुनरेकैकस्य परमाणोरनन्तान ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि हि सर्वानेव जानीयात् केवल्येवासौ स्यात् , 'जे एगं जाणति से सवं जाणती- त्यागमात् , अतः असर्वपर्यायेषु 'अवधेः' अवधिज्ञानस्य विषयनिवन्धो भवति, गोचरव्यवस्थेत्यर्थः, नवं मनःपर्यायस्येति, एतदाह-'तदनन्तभागे मनःपर्यायस्येति तेषाम्-अवधिज्ञानज्ञानिज्ञातानां द्रव्याणामनन्तभागे मनोवर्गणासम्बन्धिनि मनःपर्या
॥८५॥
॥८५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org