________________
येत्यादिना (पृ.२४-५) ज्ञानप्रक्रमादेव मनःपर्यायज्ञानं प्रागनिरूपितशब्दार्थ,किमित्याह--'द्विविध मिति,द्वे विधे यस्येति द्विविधं, | श्रीतवार्थ-IR द्वैविध्यमाह-'ऋजुमती'त्यादिना, ऋजुमतिः घटादिमात्रचिन्तनद्रव्यज्ञानाद् ऋजुमतिः सैव मनःपर्यायज्ञानं, मन्यमानमनोद्रव्य-M
मनःपर्याम हरि०
भेदी परिणामालम्बनत्वाद् ऋजुमतिमनःपर्यायज्ञानं, एवं विपुला मतिर्महद्रक्तश्यामादिघटादिचिन्तनद्रव्यज्ञानाद् विपुलमतिः सेव मनः-- तद्विशेषः पर्यायज्ञानं, मन्यमानमनोद्रव्यविशिष्टपरिणामगोचरत्वाद् विपुलमतिमनःपर्यायज्ञानमिति, चशब्दः स्वगतानेकभेदसमुच्चयार्थः ।। सूत्रान्तरसम्बन्धाभिधानायाह-'तत्राहेत्यादि, अत्र द्वैविध्ये दर्शिते चोदकोऽभिधत्ते-'कोऽनयोः प्रतिविशेष'इति, क इत्यसम्भावने, नैव कश्चित् सम्भाव्यते अनयोजुविपुलमन्योः प्रतिविशेषः-स्वगतो भेदः, मनःपर्यायाणामुभयत्र दर्शनात ,तद्विशेषाणां । च बहुत्वेन द्वैविध्यानुपपत्तेरिति चोदकाभिप्रायः,'अत्रोच्यत इति परिहारमाह सूत्रेण
. विशुद्धधप्रतिपाताभ्यां तद्विशेषः ॥ २५॥ सत्रं ॥ विशुद्धयप्रतिपाताभ्यां वक्ष्यमाणस्वरूपाभ्यां तद्विशेष'इति ऋजुविपुलमत्यो नात्वमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह | भाष्यकार:-'विशुद्धिकृतश्चेत्यादिना (पृ.२४-८) विशुद्धया-बहुतरपर्यायज्ञानरूपया कृतः-जनितः विशुद्धिकृतः, चः समुच्चये, तथा अप्रतिपातेन,-अच्यवनरूपेण कृतोऽप्रतिपातकृतश्चानयोः ऋजुविपुलमत्योः प्रतिविशेषो-भेद इति, एतदेव भावयति 'नव
थेत्यादिना, तद्यथेत्युपन्यासार्थः, ऋजुमतिमनःपर्यायज्ञानात्तु उक्तलक्षणात् सकाशात् विपुलमतिमनःपर्यायज्ञानमुक्तलक्षणमेव ॥८३॥
विशुद्धतरमिति, जातिभेदेन बहुतरपर्यायावगमादिति, तथाहि-घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेन घटोऽनेन चिन्तित इत्यानुगामिकावगमने मनोद्रव्याणि साक्षात् क्रियते, विपुलमतिमनःपर्यायज्ञानेन तु घटो-नेन बिचिन्तितः म महान् रक्तः श्यामो
॥८३॥
Jan Education International
For Personal Private Use Only