SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 5555555555555555555 श्रीपंचाननलांछनः स तनुतां श्रीवर्द्धमानः श्रियं ।। ये पंचावरोधसाधनपराः पंचपमादा हराः, पंचाणुव्रतपंचमुव्रतविधिप्रज्ञापना सादराः। कृत्वा पंचहपीकनिर्जयमथो प्राप्ता गतिं पंचमि, तेऽमी संतु मुपंचमी व्रतभृतां तीर्थंकराः शंकराः ।। पंचाचारधुरीणपंचमगणाधीशेन संमत्रित, पंचज्ञानविचारसारकलितं पंचेषु पंचत्वदं । दीपाभं गुरुपंचमारतिमिरेष्वेकादशी रोहिणी। पंचम्यादिफलप्रकाशनरटुं ध्यायामि जैनागमं ।। पंचानां परमेष्ठिनां स्थिरतया श्रीपंचमेरुश्रियं, भक्तानां भविनां गृहेषु बहुशो या पंचदिव्यं व्यधात् । प्रहे पंचजने मनोमतिकृतौ स्वारत्नपंचालिका, पंचम्यादितपोवतां भवतु सा सिद्धायिका त्रायिका ।। ___ मुरेंद्रदमानसोल्लसत्सुभक्तिपूजितं, जिनेश्वरं दिनेश्वरं प्रतापराजिराजितं । शशांकलक्ष्मशोभितं मुधाप्रभं महेश्वरं, भजेहि लक्ष्मणात्मजं प्रगेऽष्टमिदिने मुदा ।। विभावभुक्ति नातसत्स्वकीयभावधारकाः, कुकर्मपाशमोचकाः जनप्रबोधकारकाः। भवाब्धिमनतारकाः मुमार्गबोधिदर्शकाः, जयंतु ते जिनोत्तमात्रिकालवतिनो भृशं ।२। जिनेशवाक्यसंभवं गणेशबुद्धिगुंफितं, मुहेतुयुक्तिसंयुतं महारत्नपूरितं । अनंतभावबोधकं कुवादिवादनाशकं, नमामि जैनमागमं सदात्मबोधकाम्यया ।। अशेषविघ्ननाशिनी स्फुरत्प्रतापधारिणी, प्रकृष्टरूपसंपदाचिता स्वभक्तकामदा । जिनेशपादसेवना परा हि शासनाऽमरी, जिनेंद्रशासने रतान् जनानवत्वपायतः।४। ___ अरस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मलेर्जन्मव्रतमपमलं केवलमलं । वलकादश्यां सहसि लसदुद्दाममहसि, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः ।। मुपद्रश्रेण्यागमनगमनेर्भूमिवलयं, सदा स्वर्गत्येवाहमहमिकया यत्र सलयं। जिनानामऽप्यापुः क्षणमतिमुखं नारकसदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः ।२। जिना एवं यानि पणिजगदुरात्मीयसमये, फलं यत्कर्तृणामिति च विदितं जा१२०॥ शुद्धसमये । अनिष्टारिष्टानां क्षतिरनुभवेयुर्वहुमुदः, क्षितौ कल्याणानांक्षपतु विपदःपंचकमदः।। मुराः सेंद्राः सर्व सकले जिनचंद्रप्रमुदिताः, तथा च ज्योतिष्काखिलभवननाथाः समुदिताः। तपो यत् कर्तृणां विदधति मुखं विस्मितहृदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः १४॥ १२२ इग्यारस Jain Education iniminational For Personal Pre ss Only
SR No.600211
Book TitlePanch Pratikraman Sutra
Original Sutra AuthorSiddhachal Kalyan Bhuvan tatha Surat
Author
PublisherSiddhachal Kalyan Bhuvan tatha SUrat Nava Upasarana Aradhak
Publication Year1933
Total Pages192
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy