________________
उत्तराध्ययन
सूत्रम्
९५१
TATTOOTAG
पासा य इति के वुत्ता ? केसी गोअममब्बवी । केसिमेवं बुवंतं तु गोअमो इणमब्बवी ।। ४२ ।।
Jain Education International
व्याख्या - पाशाश्च पाशशब्दवाच्याः के 'वृत्तत्ति' उक्ता: ? ।।
रागदोसादओ तिव्वा, नेहपासा भयंकरा । ते छिंदित्तु जहाणायं, विहरामि जहक्कमं ।। ४३ ।।
व्याख्या - रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीव्राः गाढा तथा 'नेहत्ति' स्नेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि स्नेहानां पृथक्कथनं । भयङ्कराः अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थ: ।। ३९-४३ ।।
साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।। ४४ ।।
व्याख्या - प्राग्वत्
अंतोहिअय संभूआ, लया चिट्ठइ गोअमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं ? ।। ४५ ।।
व्याख्या - अन्तर्हृदयं मनोमध्ये सम्भूताः उत्पन्ना लता तिष्ठति आस्ते, हे गौतम! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता कथं ? त्वयेति शेषः ।। गौतमः प्राह -
For Personal & Private Use Only
TTTTE
20
केशिगौत
मीयनाम
त्रयोविंश
मध्ययनम्
९५१
www.jainlibrary.org