________________
lel
उत्तराध्ययन
सूत्रम् ९४८
iall
Jell
le
isi lol पञ्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ।।३२।।
is केशिगीत||sl
मीयनाम व्याख्या - प्रत्ययार्थं च अमी व्रतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं sil Mell हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं का
भर त्रयोविंश
मध्ययनम् व्रतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्यय: स्यादिति । तथा 'जत्तत्थति' यात्रा-संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्ट्यादौ का संयमबाधैव स्यात् 'गहणत्थंति' ग्रहणं-स्वस्य ज्ञानं तदर्थं च, कथञ्चिञ्चित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थं च, लोके लिङ्गस्य-वेषस्य । प्रयोजनम् ।।
अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ।।३३।।
व्याख्या - अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्युपगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञा ? इत्याह - 'मोक्खसब्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि-तात्त्विकानि साधनानि-कारणानि व मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं
चैव, कोऽर्थः ? ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्ग, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिङ्गं विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिञ्चित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ।। २८-३३।।
९४८
Jell iloil
llel
For Personal
Private Use Only
www.jaineibrary.org