SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५७ 16 16ll परिषहनाम द्वितीयमध्ययनम् Ifoll lel liol 67 पिबामीमान् कथं जीवा-नहं विज्ञातजैनगीः । उदबिन्दौ यदेकत्राऽसङ्ख्यजन्तून् जिना जगुः ।।१७।। त्रसा: पूतरमत्स्याद्याः, स्थावराः पनकादयः । नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् ।। १८ ।। तत्कियद्धिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ? ।। १९ ।। सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैर्नद्या, स मुमोचाञ्जलेर्जलम् ।।२०।। बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ।। २१।। धर्मस्थैर्य दधञ्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ।। २२।। प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च ।। २३ ।। अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ।। २४ ।। (युग्मम्) अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ।। २५ ।। तेभ्योऽधिगत्य तक्रादि, साधव: स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः ।।२६।। विहरन्तः सुखेनैवं, तत्कृते जिका व्रजे । उल्लङ्घयारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ।। २७।। ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ।। २८।। दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिकां तत्रा-ऽपश्यत्स्वां न तु गोकुलम् ।। २९ ।। lll Incol Iell Isil sil 116 lall sil Gll ||६|| ish lal Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy