SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् |lll ||oll परिषहनाम द्वितीयमध्ययनम् isil lioil तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः । पिपासापीडितो बाल:, स चचाल शनैः शनैः ।। ४ ।। मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः । पश्चाञ्चचाल सूनोस्तत्-प्रेमपाशनियन्त्रितः ।।५।। मार्गे तत्राययौ रङ्ग-त्तरङ्गाथ तरङ्गिणी । ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् ।।६।। जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ।।७।। तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् । निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ।।८।। यदुक्तं - "निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा । घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यपथेन गम्यते ।।९।।" मृत्युदामापदमिमां, तदुल्लङ्घ्य कथञ्चन । पश्चादालोचये: पापं, समीपे सद्गुरोरिदम् ।।१०।। इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मद्दर्शने पुत्रो, ह्रिया पास्यति नोदकम् ।।११।। हीमान् कुर्वनकार्यं हि, स्वच्छायातोऽपि शङ्कते । तद्दर्शनपथादस्या-पसरामि शनैः शनैः ।।१२।। ध्यात्वेति स पुरोऽचालीत्, क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबञ्च दृढव्रतः ।।१३।। अन्ये त्वाहुरुदन्यानि, बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ।।१४।। पिबाम्यऽनादेयमपि, नादेयं वारि साम्प्रतम् । प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ।।१५।। विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ।।१६।। Tal foll irail lifall ५६ liall foll lion Jain Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy