________________
उत्तराध्ययन
सूत्रम्
५५
Bol
उक्तः क्षुत्परीषहः, क्षुधार्त्तस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह -
परिषहनाम तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए । सीओदगं ण सेविजा, विअडस्सेसणं चरे ।।४।।
द्वितीय
मध्ययनम् व्याख्या - ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लज्जसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेत्, किन्तु 'वियडस्सत्ति' विकृतस्य वह्वयादिना विकारं प्रापितस्य । 6 एषणां एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ।। ४।। तथा- .
छिण्णावाएसु पंथेसु, आउरे सुपिवासिए । परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ।।५।।
व्याख्या - छिन्नोऽपगत आपातो जनसञ्चारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यत: 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽना, मुखं | ॥ यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीवहं तितिक्षेत सहेत, अयं भावः - एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुल्लङ्घयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ।।५।। कथासम्प्रदायश्चात्र । तथाहि -
||all अभूदुज्जयिनीपुर्य्या, धनमित्राभिधो वणिक् । धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ।।१।। ||७
गुरुवाणीं समाकर्ण्य, गुरुवैराग्यवान् धनः । पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ।।२।। स्वस्मिन् परे च सहितो, सहितो तो व्रतिव्रजः । प्रस्थितावेलगपुरा-ऽध्वनि मध्यन्दिनेऽन्यदा ।।३।।
Poll
Isl Ioll 18il
foll foll llell Jel
Iel
Jan Education inte
For Personal & Private Use Only