SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४ परिषहनाम द्वितीयमध्ययनम् धर्मलाभ इति प्रोझैः, प्रोच्य तत्राथ तस्थुषे । तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कतः करः ।।२४।। इत्थं भिक्षां ददौ तस्म, हस्तिमित्रामरोऽन्वहम् । कृताहारञ्च तं स्नेहा-द्वार्त्तयामास सर्वदा ।। २५।। देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्बणम् । ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ।। २६ ।। व्रतिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् । वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ।।२७।। अटव्यां चाययुस्तस्यां, क्षुल्लकं ददृशुश्च तम् । क्व तिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तञ्च ते ।। २८ ।। अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके । वृक्षनिर्गतहस्ताञ्च, लभेऽहमशनादिकम् ।। २९।। अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते । तं वीक्षितुं गताः शुष्कमद्राक्षुस्तत्कलेवरम् ।।३०।। ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः । कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ।। ३१।। अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः । वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ।। ३२।। अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः । यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्धोक्तुं फलादिकम् ।।३३।। हस्तिभूतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् । आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ।।३४।। परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् । ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ।।३५।। इति क्षुधापरीषहे हस्तिमित्रकथा ।।१।। Ill oll lall foll Mall |lol llel llell No ५४ Moll foll Isil foll llo.in www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy