________________
Isil
उत्तराध्ययन
सूत्रम् ९३६
llell
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
llell llell
Nell llall
|lol
likell
ततोऽवट तटस्थस्य, वटस्य निकटे निशि । तस्थौ प्रतिमया स्वामी, नासाग्रन्यस्तलोचनः ।। २८९।। इतश्च सोऽसुरो मेघ-मालिनामाऽवधेनिजम् । ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ।। २९०।। क्रोधेन प्रज्वलनन्त-वियोगीव मनोभुवा । पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ।। २९१ ।। (युग्मम्) विचक्रे चाङ्कुशाकार- 'नखरानखरायुधान् । घोररूपधरान्पुच्छा-च्छोटकम्पितभूधरान् ।। २९२ ।।
आप्ते तैीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् । विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ।। २९३।। तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः । यमदोर्दण्डवचण्डा-कान्नेत्रविषानहीन् ।। २९४ ।। उत्कटैः कण्टकैः स्वास्थ्य-"व्रश्चकान् वृश्चिकांस्तथा । भल्लूकशूकरादींश्च, श्वापदानापदां विधीन् ।। २९५ ।। ज्वालामालाकरालास्या-न्मुण्डमालाढ्यकन्धरान् । प्रेतान् विश्वानभिप्रेताऽऽकारांश्च विचकार सः ।। २९६ ।। (त्रिभिर्विशेषकम्) प्रभोर्ध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् । वज्रं भेत्तुमिवोदंश-कीटिकामत्कुणादयः ।। २९७ ।। तत: क्रुद्धोऽधिकं गर्जा-विद्युद्व्याप्तदिगन्तराम् । मेघमाली मेघमालां, विचक्रे व्योम्नि भीषणाम् ।। २९८ ।। नीरैरेनं प्लावयित्वा, हनम्यहं पूर्वविद्विषम् । ध्यायन्निति ससंरम्भः, प्रारेभे सोऽथ वर्षितुम् ।। २९९ ।।
धाराभिर्मुष्टिमुशल-यूपाकाराभिरुञ्चकैः । वर्ष वर्ष व्यधादेका-र्णवामिव वसुन्धराम् ।।३००।। Mall १ कूपतटस्थितस्य । २ सिंहान् । ३ अर्हति । ४ दृषिविषसर्पान् । ५ छेदकान् । । 'रिंछ' इति भा. ।
llol llel
||sh
Ifoll
||61
lel
|
116
lal ||
Iel
lell llell
oll
I
lol 16
sil
||sil
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org