SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् N& Isi केशिगीतमीयनाम त्रयोविंशमध्ययनम् अत एव स मां प्रेषी-त्त्वां बुबोधयिषुर्जड ! । तद्बुध्यस्वाऽवबुध्यस्वा-ऽजय्यं तं वज्रिणामपि ।। २२७ ।। 'हरिणो हरिणा ध्वान्तं, भास्वता शलभोऽग्निना । पिपीलिकाब्धिना 'नाग-स्तायेण पविना गिरिः ।। २२८ ।। कुञ्जरे णोरणश्चैव, यथा योद्धूमनीश्वरः । तथा त्वमपि पार्श्वेण, तत्तदाज्ञां प्रतीच्छ भोः ! ।। २२९ ।। (युग्मम्) ब्रुवन्तमिति तं दूतं, विब्रुवन्तो जिघांसवः । यावदुत्तस्थिरे सैन्या-स्तावन्मन्त्रीत्युवाच तान् ।। २३०।। अरे ! पार्श्वप्रभोर्दूतं, मूढा यूयं जिघांसवः । अनर्थान्धौ' क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! ।।२३१।। यस्याज्ञां मौलिवन्मौली, दधते 'वासवा अपि । ततस्याभिहनन-मास्तां हीलापि दुःखदा ! ।। २३२।। निवार्येति भटान्मन्त्री, साम्ना तं दूतमित्यवक् । सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवी: प्रभोः ।। २३३ ।। नन्तुं श्रीपार्श्वपादाब्जान्, समेष्यामोऽधुना वयम् । इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ।। २३४।। हितेच्छुः स्वप्रभुं चैवमूचे देवाऽविमृश्य किम् । दुरुदर्कमिदं सिंह- सटाकर्षणवत्कृतम् ? ।। २३५ ।। यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव 'सङ्गरः ? । तदद्यापि न्यस्य कण्ठे, कुठारं पार्श्वमाश्रय ।। २३६।। क्षमयस्व स्वापराधं, तच्छासनमुरीकुरु । अत्रामुत्र च चेत्सौख्यैः, कार्यं कार्यं तदा ह्यदः ।।२३७।। साध्वहंबोधितो मन्त्रि-त्रित्याख्याद्यवनस्ततः । सतन्त्रोऽगादपस्वामि, ग्रीवान्यस्तपरश्वधः ।। २३८।। मृगः सिंहेन । २ अन्धकारः रविणा । ३ सर्पः गरुडेन । ४ हस्तिना मेषः । ५ अनर्थकूपे । ६ इन्द्राः । ७ निन्दा । ८ सिंहकेशराकर्षणवत् । ९ रणः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy