________________
उत्तराध्ययन
सूत्रम् ९२४
చా చా చా చా చా చా చా చా చా చా చా తాల
FTTTTTTOTS
Jain Education International
विद्याधरकनीस्तत्र, भूयसीरुदुवाह च । पद्माद्याभिः समं ताभिः स्वपुरेऽगाच्च सोऽन्यदा ।। १४० ।। जातचक्रादिरत्नश्च षट्खण्डं क्षितिमण्डलम् । सुवर्णबाहुभूपालः साधयित्वान्वशाचिरम् ।। १४१ ।। प्रासादोपरि सोऽन्येद्युः, क्रीडन्नन्तः पुरीवृतः । सविस्मयोऽम्बरेऽपश्य-गमागमपरान्सुरान् ।। १४२ ।। ततो ज्ञात्वा जगन्नाथ तीर्थनाथसमागमम् । गत्वा नत्वा जिनं मोहा पहां शुश्राव देशनाम् ।। १४३ ।। सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् । प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः । । १४४ । । स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा । दृष्टा मयेदृशाः पूर्व-मपि क्वापीति भावयन् ।। १४५ ।। जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् । वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ।। १४६ ।। ( युग्मम्) दीक्षां जिघृक्षुः क्ष्मापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे । जगन्नाथजिनस्तंत्र, पुनरप्यागमत्तदा ।। १४७।। सुवर्णबाहुः प्राब्राजी-त्ततस्तस्यार्हतोऽन्तिके । स च क्रमेण गीतार्थ- स्तपस्तेपे सुदुस्तपम् ।। १४८।। जिनसेवादिभिः स्थान:, तीर्थकृत्कर्म चार्जयत् । विजहार च भूपीठे ऽप्रतिबद्धः समीरवत् ।। १४९ ।। स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ । भानोरभिमुखस्तस्थी, कायोत्सर्गेण शुद्धधीः ।। १५० ।। कुरङ्गकोsपि नरको द्वत्तस्तत्रैव भूधरे । सिंहोऽजनिष्ट दैवाञ्छ, तत्रागच्छत्परिभ्रमन् ।। १५१ ।। मुनीन्द्रं वीक्ष्य तं क्रोधा ध्मातः प्राग्भववैरतः । दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ।। १५२ ।।
For Personal & Private Use Only
FTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTS
केशिगौत
मीयनाम
त्रयोविंश
मध्ययनम्
९२४
www.jninelibrary.org