SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ ne Poll उत्तराध्ययन सूत्रम् ९२२ केशिगौतमीयनाम त्रयोविंशमध्ययनम् Mail fall Noil lloll किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा । रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ।। ११५ ।। साऽवादीखेचरेन्द्रस्य, सुता रत्नपुरप्रभोः । रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ।। ११६ ।। का तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः । मिथोऽयुध्यन्त राज्यार्थं, ततोऽभूद्विड्वरो' महान् ।। ११७ ।। रत्नावली त्विमां बाला-मादायागादिहाश्रमे । निजभ्रातुः कुलपते-र्गालवाह्वस्य मन्दिरम् ।।११८।। ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः । कामकार स्कराङ्कर-जीवनं चाप यौवनम् ।। ११९।। अत एवर्षिकन्यानां, कर्मादः क्रियतेऽनया । यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ।। १२०।। साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ । पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ।। १२१ ।। Nell ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः । सुवर्णबाहुर्भाव्यस्याः, विवोढा वज्रबाहुजः ।।१२२।। ततो दध्यौ मुदा क्षमापो, हयेनोपकृतं मम । हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्या न चेत्क्व मे ? ।।१२३।। इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः ? । तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्क इव भास्करम् ।।१२४ ।। सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् । किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ।।१२५ ।। तदा तत्राययो राज्ञः, सैन्यमश्वपदानुगम् । सुवर्णबाहुरेवाय-मिति ते दध्यतुस्ततः ।।१२६ ।। १ सङ्ग्रामः । २ मदनवृक्षाकरजलम् । ३ चकवाकः । lifell 116ll liell liell llell Isil litell llell Iell Hell liell ||.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy