________________
उत्तराध्ययन
सूत्रम्
ran is केशिगीत||sl lish मीयनाम lusll is त्रयोविंश
मध्ययनम्
२२१
Ior
Isl
Jel lell
तत्र प्रविशतो राज्ञो-ऽस्फुरदक्षिणमीक्षणम् । श्रेयः श्रेयोऽथ मे भावी-त्यन्तभूपोऽप्यचिन्तयत् ।।१०३।। पुरो व्रजंश्च सोऽपश्य-त्तत्रैकां मुनिकन्यकाम् । सिञ्चन्तीं शाखिनः सख्या-ऽनुगतां गजजिद्गतिम् ।। १०४ ।। ट्ठमान्तरस्थो निध्यायं-स्तामध्यायत्ततो नृपः । सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ।। १०५।। विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि । क्वाऽयं रूपगुणोऽमुष्याः, क्वेदं कर्मतरोचितम् ! ।। १०६।। नृदेवे चिन्तयत्येवं, तच्छ्वासामोदमोहितः । आस्ये तस्याः पपाताज-भ्रमेण भ्रमरो भ्रमन् ! ।।१०७।। भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा । विना सुवर्णबाहुं त्वां, कोन्य: पातीति साप्यवक् ।।१०८।। सुवर्णबाही पाति क्षमा-मुपद्रवति कोऽत्र वः ? । इत्यु रुझरन्प्रादु-रासीद्राजा तयोस्तदा ।। १०९।। तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् । धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ।। ११०।। बज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे । नेश्वरोऽपीश्वरः कर्तुं, तापसानामुपद्रवम् ।। १११ । । मुग्धासौ तु कजभ्रान्त्या, षट्पदाद्दशतो मुखम् । वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ।।११२।। त्वं पुनः कामजिद्रूपः, कोऽसीति ब्रूहि सन्मते ! । तयेत्युक्तोऽवदद्भूपः, स्वयं स्वं वक्तुमक्षमः ।। ११३।। सुवर्णबाहुभूजाने-मा॑ जानीहि वशंवदम् । आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया ।। ११४ ।।
llell Isil ||slil
llel
sil dell Isll
Del
liell
all 161
१ कमलभान्या ।
IS
९२१
||
lol
Jan Education international
For Personal Pre Use Only