________________
उत्तराध्ययन
सूत्रम
९१९
isl केशिगौतis मीयनाम Mall त्रयोविंशfoll
मध्ययनम् foll foll
||si
116ll
foll
तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद् व्रतम् । वज्रनाभस्ततो राज्य-मन्वशादुग्रशासनः ।। ७९।। विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् । क्षेमङ्कराहतोऽभ्यणे, दक्षो दीक्षामुपाददे ।। ८० ।। तप्यमानस्तपस्तीव्र, सहमान: परीषहान् । स साधुरासदल्लब्धी-राकाशगमनादिकाः ।। ८१।। गुरोरनुज्ञयैकाकी, विहरन् सोऽन्यदा मुनिः । सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ।। ८२।। विहरंस्तत्र सोऽन्येधु-भीमकान्तारमध्यगम् । ज्वलनाद्रिं ययावस्ता-चलं च तरणिस्तदा ।। ८३।। ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः । सत्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ।। ८४।। प्रातश्च धुमणिज्योति'-ोतितं धरणीतलम् । जीवरक्षाकृते पश्यन्, विहर्तुमुपचक्रमे ।। ८५।। उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे । गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्ककः ।। ८६।। पाप: पापद्धिविहिता-जीवो जीवक्षयोद्यत: । मृगयायै व्रजन्पूर्वं, सोऽपश्यत्तं मुनि तदा ।। ८७।। असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः । आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ।। ८८।। वदनमोर्हय इति, प्रहारातॊ व्रती तु सः । उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ।। ८९।।
क्षमयित्वाऽखिलान् जन्तून्, शुभध्यानी विपद्य च । मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ।। ९०।। (युग्मम्) १ रविप्रकाश प्रकाशितम् । २ बाणेन ।
Malll hell
llall liell
all
||s| lell
liel llell
Ioll 16
Mel
101
||
all lol
lall Mall
llell
९१९
lall
in Education International
For Personal & Private Use Only
www.jainelibrary.org