SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९१६ loll 11611 ॥६॥ ॥७॥ ॥६॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् । तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ।। ४२ ।। तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः । तत्रागत्य तटाकेऽम्भोऽम्भोदोऽम्भोधाविवापिबत् ।। ४३ ।। करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् । दिशः पश्यन्नपश्यञ्च तं सार्थं तत्र संस्थितम् ।। ४४ ।। तद्वधाय च सोऽधावत् क्रुधाऽन्तक इवापरः । तं चायान्तं वीक्ष्य सर्वे, प्रणेशः सार्थिका द्रुतम् ।। ४५ ।। तं चावबुध्य बोधार्ह - मवधेः स तु सन्मुनिः । कायोत्सर्गेण तस्थौ तन्मार्गेऽचल' इवाचल: ।। ४६ ।। धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः । तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ।। ४७ ।। उत्सर्गं पारयित्वाऽथ, तस्योपकृतये व्रती । इत्यूचे भोः स्मरसि तं मरुभूतिभवं न किम् ? ।। ४८ ।। मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! । प्राग्भवे चादृतं श्राद्ध-धर्मं किं व्यस्मरः ? कृतिन् ! ।। ४९ ।। इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः । उदञ्चितकरो भूमि न्यस्तमूर्द्धानमन्मुनिम् ।। ५० ।। तेनोक्तं साधुना श्राद्ध-धर्मं च प्रतिपद्य सः । नत्वा मुनिं गुणास्थानं, स्वस्थाने स्वस्थधीर्ययौ ।। ५१ ।। दृष्ट्वा तदद्भुतं पूर्व-नष्टास्ते सार्थिका अपि । उपेत्य तं यतिं नत्वा, श्राद्धधर्मं प्रपेदिरे ।। ५२ ।। सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे दृढोऽभवत् । अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ।। ५३ ।। ११ पर्वत इव स्थिरः । २ हस्ती । Jain Education International For Personal & Private Use Only ATTTTTTTT లె లె TO S केशिगौतमीनाम त्रयोविंश मध्ययनम् ९१६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy