SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ सूत्रम् ९०८ 161 Isl lll in यस्त्वं जीवितकारणादसंयमजीवितार्थं वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु ॥ रथनेमीयनाम ॥ वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि - "विज्ञाय वस्तु निन्द्यं, त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, न हि सर्वं द्वाविंश is is सारमेयोपि" इति ।। ४२।। मध्ययनम् || ॥6 अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ।।४३।। व्याख्या - अहं चः पूर्ती भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णे: कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' il भविष्यावस्तछेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मन्त्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं is कार्यमित्याह-संयम निभृतः स्थिरश्चर सेवस्व ।। ४३।। जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्धव्व हडो, अद्विअप्पा भविस्ससि ।। ४४।। व्याख्या - यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु तास्विति गम्यते । ततः किमित्याह-वाताविद्धो । ॥ वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो ह्यदृढमूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुर्वंस्त्वमपीति ।। ४४।। ९०८ II Isil dol sil Isil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy