SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ ||७|| llell उत्तराध्ययन सूत्रम् Iel &ा रथनेमीयनाम lal द्वाविंशIsl llel २२ Itall || मध्ययनम् llol ||&ll Isl || कृत्वोद्वाहं तदस्माकं, दर्शय स्ववधूमुखम् । प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ।।३७५ ।। बभाण भगवान्पूज्याः !, श्लथयन्त्वेनमाग्रहम् । प्रवर्त्यते हितेऽर्थे हि, स्वाभीष्टो नाऽपरे पुनः ।। ३७६।। यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् । अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् ! ।। ३७७।। तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् । कृती हि यतते प्रेत्य-हिते नाऽऽपातसुन्दरे ! ।। ३७८।। (युग्मम्) वदन्तमिति तं साक्, सवें कम्पितविष्टराः । तीर्थं प्रवर्त्तयेत्यूचु-रेत्य लोकान्तिकामराः ।। ३७९।। समुद्रविजयादींश्च, ते देवा एवमूचिरे । शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ।। ३८०।। अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवल: । चिरं मोदयिता विश्व-त्रयं तीर्थं प्रवर्तयन् ! ।। ३८१।। मुदितेषु तदाकर्ण्य, समुद्रविजयादिषु । गृहं गत्वाऽऽब्दिकं दानं, दातुं स्वामी प्रचक्रमे ।। ३८२।। इतश्च वलितं वीक्ष्य, नेमिं शोकभरातुरा । राजीमती क्षितौ वज्रा-हतेवाचेतनाऽपतत् ।। ३८३।। वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना । दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् ! ।। ३८४ ।। दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगम: ? । त्वादृशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ।। ३८५।। सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् । जहात्यङ्कमृगं नेन्दु-र्नचाब्धिर्वडवानलम् ! ।।३८६।। सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो ! । तदा किमर्थं स्वीकृत्य, विवाहं मां व्यडम्बयः ? ।।३८७ ।। Iom sil Neil ||७|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy