SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८९३ |lol isi ||७|| ॥ रथनेमीयनाम isi द्वाविंशII मध्ययनम् || भवेद्विनाङ्गनां नाङ्ग-शुश्रुषा मजनादिना । अस्त्रीकस्य मनोभीष्टं, नि:स्वस्येव क्व भोजनम् ? ।।३४३।। रत्नानीव विना खानि, नन्दनाः क्व विनाङ्गनाम् ? । अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ।।३४४।। यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? । चक्रवाकी विना पश्य, चक्रस्याब्दायते निशा ! ।।३४५।। विना योग्यवधूयोगं, सकलोपि न शोभते । पश्य श्यामावियुक्तस्य, कान्ति: का नाम शीतगोः ! ।।३४६।। पाणौ कृत्य ततः काञ्चि-त्कन्यां गुणगणाम्बुधे । । श्रीदाशार्ह ! दशार्हादि-यदूनां पूरयेहितम् ।।३४७।। आ'जन्मस्वैरिणा षण्ढे-नेव धूर्भवता वधूः । निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः ! ।।३४८।। तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः । शेषस्याशेषभूधर्तु-नहि भाराय वल्लरी ! ।।३४९।। निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः । भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ! ।। ३५०।। दद्याः प्रतिवचो मा वा, धाष्टान्मूकस्य ते परम् । नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना ! ।।३५१।। इति ताभिः प्रार्थ्यमान-मुपेत्यार्हन्तमादरात् । प्रार्थयन्त तमेवार्थं, रामकृष्णादयोऽपि हि ! ।। ३५२।। बन्धुभिर्बन्धुरैर्वाक्यः, सनिर्बन्धमितीरितः । जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ।।३५३।। तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः । समुद्रविजयायाख्य-न्मुदमुन्मुद्रयन् पराम् ।। ३५४।। शण्डेन घरिवाजन्म-स्वेरिणा भवता वपुः । इति "प" पुस्तके ।। POSTTTTTTTTTTTTTTTTTTTTTTTTTTTTTER || ||SIL Inn Education For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy