________________
उत्तराध्ययनसूत्रम्
८९०
तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् । अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ।। ३०४ ।। तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः । वेत्रवन्त्रमयत्रु-लीलयाऽधिज्यमातनोत् ।। ३०५ ।। तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः । टङ्कारध्वनि गर्जाभि-विश्वं विश्वमपूरयत् ।। ३०६ ।। त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् । अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ।। ३०७।। जनार्द्दनोऽपि यां गृह्ण-नायासं लभते भृशम् । हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ।। ३०८ ।। तां च मुक्त्वा पाञ्चजन्यः, स्वामिना योजितो मुखे । स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ।। ३०९ ।। ध्माते च स्वामिना तस्मिन् विश्वं बधिरतां दधौ । चकम्पिरेऽचलाः सर्वे ऽचलाप्यासीञ्चलाचला ।। ३१० ।। चुक्षुभुर्वार्द्धयो वीरा, अप्युर्व्या मूर्च्छयाऽपतन् । किमन्यत्तस्य शब्देन, वित्रेसुस्त्रिदशा अपि ! ।। ३११ । । 'क्षुभितस्तद्ध्वनेः सिंहनादाद्गज इवाऽच्युतः । इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ।। ३१२ ।। सामान्यभूस्पृशां क्षोभ, शङ्खे ध्माते मयाप्यभूत् । ध्वानेनानेन तु क्षोभो, ममाप्युद्यैः प्रजायते ।। ३१३ ।। तद्वज्री चक्रवर्त्ती वा, विष्णुर्वान्यः किमागतः ? । तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ।। ३१४ । । ध्यायन्नित्यायुधारक्षै-रेत्योदन्तं यथास्थितम् । विज्ञप्तो विष्णुरित्यूचे, शङ्कातङ्काकुलो बलम् ।। ३१५।। इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् । स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ? ।। ३१६ ।।
१. क्षुब्यो ध्वानात्ततः सिंह-इति "घ" पुस्तके प्रथमपादः ।।
Jain Education Intonal
For Personal & Private Use Only
ATTTTTO
||७|| रथनेमीयनाम द्वाविंशमध्ययनम्
॥६७॥
८९०
www.jainelibrary.org