________________
उत्तराध्ययन
सूत्रम् ८८८
||७|| ill रथनेमीयनाम Moll द्वाविंश
मध्ययनम्
Ill ||6||
Mon
Nell
पूणे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् । दिक्कुमार्योऽभ्येत्य तस्य, सूतिकर्माणि चक्रिरे ।। २९०।। तस्येन्द्रा निखिलाश्चकु-रौ स्नात्रमहोत्सवम् । पार्थिवोऽपि मुदा चक्रे, पुरे जन्म महोत्सवम् ।। २९१ ।। स्वप्ने दृष्टो रिष्टनेमि - त्रास्मिन् गर्भमागते । इति तस्यारिष्टनेमि - रितिनामाकरीनृपः ।। २९२।। वासवादिष्टधात्रीभि-लाल्यमानो जगत्पतिः । समं जगन्मुदा वृद्धिं, दधदष्टाब्दिकोऽभवत् ।। २९३।। अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् । उग्रसेनधराधीश-धारिण्योस्तनयाऽभवत् ।। २९४ ।। राजीमतीति सज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् । कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ।। २९५ ।। इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना । विष्णुना निहते कंसे, जरासन्धसुतापतौ ।। २९६ ।। क्रुद्धाद्धीता जरासन्धात्सङ्गत्य यदवोऽखिलाः । पश्चिमाम्भोनिधेस्तीरं, जग्मुर्दैवज्ञशासनात् ।। २९७।। (युग्मम्) तत्र श्रीदोऽच्युताराद्धो, नवयोजनविस्तृताम् । द्वादशयोजनायामां, निर्ममे द्वारकापुरीम् ।। २९८ ।। जात्यस्वर्णमयीं तां च, लङ्काशङ्काविधायिनीम् । रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ।। २९९ ।। जरासन्धं प्रतिहरिं, हत्वा रामाच्युतौ क्रमात् । भरतार्द्ध साधयित्वा-ऽभुञ्जातां राज्यमुत्तमम् ।। ३००।। भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् । प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ।।३०१।। तस्य च प्रभोः रूपादिस्वरूपं प्ररूपयितुमाह सूत्रकारः -
16ll
Isl ||ll lls
Isil sil
fel llell
Isll
llell
116ll
Bell
Ifoll
min Education International
For Personal & Private Use Only
www.jainelibrary.org