________________
उत्तराध्ययन
सत्रम
Isl
का रथनेमीयनाम || Ifoll द्वाविंशis मध्ययनम्
८E
Wor
तानि न प्राभवंस्तत्र, पुण्याढ्ये वाडवेऽम्बुवत् । कुमारोऽथाऽऽच्छिनचापं, युद्धश्रान्तानभश्चरात् ।। २६५ ।। तद्वाणेनैव शोन, खेचरः प्रहतोथ सः । मुमूर्छ तत्कृतेः शीतो-पचारैश्चाभवत्पटुः ।। २६६।। भूयो युद्धाय शङ्खनो-त्साहितश्चैवमब्रवीत् । केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जितस्त्वया ! ।।२६७।। वीर्यक्रीतोऽस्मि दासस्ते, मन्तुमेनं क्षमस्व मे । शङ्खोप्युवाच त्वद्भक्तया, तुष्टोऽस्मि ब्रूहि कामितम् ।। २६८।। सोऽवादीनित्यचैत्यानां, नत्यै मेऽनुग्रहाय च । एहि पुण्याढ्य ! वैताढ्य, शङ्खोऽपि तदमन्यत ।। २६९।। गुणैः समग्रैरुत्कृष्टं, तं च प्रेक्ष्य यशोमती । भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् ।। २७०।। तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः । तेषु द्वौ प्रेष्य सेनां स्वां, शङ्खः प्रेषीनिजे पुरे ।। २७१।। आनाय्य खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् । धात्रीकनीखेचरयुग, वैताढ्ये भूपभूर्ययौ ।। २७२।। तत्र शाश्वतचैत्यस्थान्प्रणम्याऽऽनर्च सोऽर्हतः । स्वपुरे तं च नीत्वोचै-रान मणिशेखरः ।।२७३।। परेपि खेचरास्तत्र, प्रीता वैरिजयादिना । पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ।। २७४।। यशोमतीमुद्द्यैव, परिणेष्यामि वः सुताः । शङ्खस्तानित्यवक् सा हि, तस्य प्राग्भवगेहिनी ।। २७५।। स्वस्वपुत्रीरथादाय, यशोमत्या सहान्यदा । मणिशेखरमुख्यास्तं, चम्पां निन्युर्नभश्चराः ।। २७६ ।। स्वपुत्र्या खेचरेन्द्रश्च, सह श्रीषेणनन्दनम् । ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिः स्वपुरेऽनयत् ।। २७७।।
||sil ||sil
llell ||ll ||७||
sil
For Personal Private Use Only