________________
॥
Is
उत्तराध्ययन
सूत्रम् ८८४
जा IS Ill || ||७||
II रथनेमीयनाम
द्वाविंशमध्ययनम्
|| islil ||si loll ||sll
अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे । देव ! त्वद्देशसीमाद्रा-वति दुर्गोऽस्तिदुर्गमः ।। २३९।। नाम्ना समरकेतुश्च, पल्लीशस्तत्र वर्त्तते । सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ।। २४०।। तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता । इति शङ्खकुमारेण, नत्वा व्यज्ञपि साग्रहम् ।। २४१।। शिशुनागे पक्षिराज, इवोद्योग: स्वयं प्रभोः । न युक्तस्तत्र पल्लीशे, तन्मामादिश तजये ।। २४२।। नृपाज्ञया ससैन्येऽथ, शङ्ख पल्लीमुपागते । दुर्गं विहाय पल्लीशः, प्राविशत् क्वापि गह्वरे ।। २४३।। सुधीः शङ्खोऽपि सामन्तं, दुर्गे कञ्चिदवीविशत् । स्वयं पुननिलीयास्था-निकुञ्ज क्वापि सैन्ययुक् ।। २४४।। छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् । प्रबल: स्वबलैस्ताव-त्कुमारस्तमवेष्टयत् ।। २४५।। दुर्गप्रविष्टसामन्त-कुमारकटकैरथ । स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ।। २४६।। कान्दिशीकस्तत: कण्ठे, कुठारमवलम्ब्य सः । कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ।। २४७।। मायाजालस्य संहर्ता, त्वमेव मम धीनिधे ! । तव दासोऽस्मि सर्वस्वं, ममादत्स्व प्रसीद च ।। २४८।। तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम् । पल्लीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ।। २४९।। मार्गे निवेश्य शिबिरं, स्थितो रात्रौ स भूपभूः । श्रुत्वा रुदितमात्तासि-र्ययौ शब्दानुसारतः ।। २५०।। किञ्चिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः । किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ।। २५१।।
16
Nell 16ll Nell Mall Well
liball
fall
181
lloil ||al Ill
lil
fell lol
JM
||ll ilsh lish
८८४
llol
lall Holl Hell llell www.jainelibrary.org
lls
Jan Educatio
n al
For Personal & Private Use Only