SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८८१ DOOD 11011 पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी । तां चापराजितोऽजैषी-द्वादे क्वाप्यपराजितः ।। २०१ । । स्वयंवरस्रजं साथ, तत्कण्ठे क्षिप्रमक्षिपत् । ततः सर्वे नृपाः क्रुद्धा, युद्धायासज्जयन्भटान् ! ।। २०२।। कोऽसौ वराको वाक्शूरो ऽस्मासु सत्सूद्वहेदिमाम् ? । वदन्त इति सामर्षं घोरमारेभिरे रणम् ।। २०३ ।। हत्त्वा कञ्चित्कुमारस्तु, गजस्थं तद्गजस्थितः । युयुधे रथिनं हत्त्वा क्षणाञ्च स्यन्दनस्थितः । । २०४ ।। एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् । युध्यमानोऽमानशक्तिः, सोऽभाङ्क्षीन्मक्षु विद्विषः ! ।। २०५ ।। शास्त्रैः स्त्रिया जिताः शस्त्रै - स्त्वनेनेति त्रपातुराः । भूयः सम्भूय जन्याय, राजन्यास्ते डुढौकिरे ! ।। २०६ ।। राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः । प्रत्यभिज्ञातवांस्तं च स भूपस्तिलकादिना ।। २०७ ।। जामेयामेयवीर्य ! त्वां दिष्ट्याऽवेदमिति ब्रुवन् । सोमः सोममिवो दन्वान्मुदा तं परिषस्वजे ! ।। २०८ । । तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुर्युधम् । कुमारोऽपि निजं रूप माविश्चक्रे मनोरमम् ।। २०९ ।। सर्वोर्वीवल्लभैर्वर्ण्य-मानरूपपराक्रमः । प्रीतः प्रीतिमतीं सोऽथ, परिणिन्ये शुभेऽहनि ।। २१० ।। व्यसृजज्जितशत्रुस्ता-नृपान् सत्कृत्य कृत्यवित् । प्रीतिमत्या रमन्प्रीत्या, तस्थौ तत्रापराजितः ।। २११ । । हरिणन्दिमहीभर्त्तु-र्दूतस्तत्रागतोऽन्यदा । पित्रोः कुशलमस्तीति, तं चालिङ्ग्य स पृष्टवान् ।। २१२ ।। १. उदन्वान् सागरः || Jain Education International For Personal & Private Use Only రైతా వా వా వా వాతా रथनेमीयनाम द्वाविंश मध्ययनम् ८८१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy