SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८७९ Jain Education International सोऽथ कुण्डपुरोद्याने, गतः स्वर्णाम्बुजस्थितम् । वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ।।१७६ ।। भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे । अथापराजितेनेति, पृष्टः प्रोवाच केवली ।। १७७ ।। भव्योऽसि जम्बूद्वीपस्य, भरते पञ्चमे भवे । भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव ।। १७८ ।। तदाकर्ण्य सहर्षी तो, भेजतुस्तं मुनिं चिरम् । मुनौ तु विहते ग्रामादिषु चैत्यानि नेमतुः ।। १७९ ।। इतश्च श्रीजनानन्दे, जनानन्दकरे पुरे । जितशत्रुरभूद्भूपः, तस्य राज्ञी तु धारिणी ।। १८० । । दिवो रत्नवतीजीवयुत्वा तत्कुक्षिमाययौ । काले चासूत सा प्रीति-मतीसञ्ज्ञां सुतां शुभाम् ।। १८१ ।। क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः । आससाद जगज्जैत्रं, वैदग्ध्यमिव यौवनम् ।। १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे प्राज्ञोऽपि बालिशः । ततोऽरज्यत सा क्वाऽपि पुरुषे न मनागपि ।। १८३ ।। तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छन्नृपोऽन्यदा । सा जगौ मां जयति यो, वादे भर्त्ता ममास्तु सः ! ।। १८४ । तत्प्रपद्य नृपोऽन्येद्युः, स्वयंवरणमण्डपम् । चारुमञ्चाञ्चितं चित्र- कारिचित्रमचीकरत् ।। १८५ ।। तत्र पुत्रवियोगार्त्त, हरिणन्दिनृपं विना । समं कुमारैरेयुस्त- हूताहूता नृपाः समे ।। १८६ ।। अधिमचं निषण्णेषु तेषु दैवात्परिभ्रमन् । समित्र: सबुधो मित्र, इवागादपराजितः ।। १८७ ।। मा दृष्टपूर्वी नौ ज्ञासीदिति तौ गुटिकावशात् । रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ।। १८८ ।। For Personal & Private Use Only DATTA S || रथनेमीयनाम द्वाविंशमध्ययनम् 222222; ८७९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy