________________
उत्तराध्ययन
सूत्रम्
५०
Jel Isil Jell Ill
||Gll
(१२), वहपरीसहे (१३), जायणापरीसहे (१४), अलाभपरीसहे (१५), रोगपरीसहे (१६), तणफासपरीसहे (१७), जल्लपरीसहे परिषहनाम is (१८), सक्कारपुरक्कारपरीसहे (१९), पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे (२२) ।।
द्वितीय
मध्ययनम् व्याख्या - तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन 8 आहारपचनाप्रासुकानेषणीय भोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीषहो दिगिज्छापरीषहः (१) पिपासा तृषा, सैव परीषहः । 6 पिपासापरिषहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् (४) दंशमशकाः प्रतीताः,
यूकाधुपलक्षणञ्चैते (५) अचेलं चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया
घृतिस्तद्विपरीता चारतिः (७) स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलाषविनिवर्त्तनेन | IMGM परिषह्यमाणत्वात् परीषहः (८) चर्या विहारात्मिका (९) नैषेधिकी स्वाध्यायभूः (१०) शय्या उपाश्रयः (११) आक्रोशोऽसभ्यभाषणरूपः (१२) ॥ 6 वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः (१६) तृणस्पर्शो दर्भादिस्पर्श: ॥ ७ (१७) जल्लो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम्, पुरस्कारोऽभ्युत्थानादिसम्पादनम्, तावेव परीषहः (१९) प्रज्ञा स्वयं विमर्शपूर्वको । in वस्तुपरिच्छेदः (२०) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (२१) दर्शनं सम्यग्दर्शनम्, तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलतया । 6 धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामत: परीषहानुक्त्वा स्वरूपतो विवक्षुस्तानाह -
S
isi
list llel lle Jel Isl
JainEducation indemational
For Personal Pre
se Only
www.jainelibrary.org