________________
islil || || ll ||७||
उत्तराध्ययन
सूत्रम् ८७७
ला रथनेमीयनाम
द्वाविंश||Gl foll मध्ययनम्
ते मणीमूलिके वेषा-न्तरदा गुटिकास्तथा । कुमारे नि:स्पृहे सूर-कान्तो मन्त्रिभुवे ददौ ।।१५०।। गते मयि निजं स्थान-मानेयाऽसौ स्वनन्दना । इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ।।१५१।। तं कुमारं स्मरन्तस्ते, स्वस्थानं खेचरा ययुः । कुमारोऽपि पुरो गच्छ-नटव्यां तृषितोऽभवत् ।।१५२।। निवेश्य तं च चूताधो-ऽमात्यभूरम्भसे गतः । प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ।।१५३।। सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् । मूर्छितो न्यपतल्लब्ध-सञ्ज्ञस्तु व्यलपद्धृशम् ।।१५४।। कथञ्चिद्धैर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः । प्राप्तो नन्दिपुरोद्याने, सोऽतिष्ठद्यावदुन्मनाः ।। १५५।। तावदागत्य तं विद्या-धरी द्वावेवमूचतुः । विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ।।१५६।। तस्य च स्त: कमलिनी-कुमुदिन्यावुभे सुते । भर्त्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ।।१५७।। स्वामिनाथ तमानेतुं, प्रहितो तत्र कानने । आवां युवामपश्याव, त्वं चागाः पाथसे तदा ।।१५८।। हृत्वाऽऽवां तव मित्रं चा-ऽनयाव स्वामिनोऽन्तिके । तं चाभ्युत्थाय भुवन-भानुरासयदासने ।। १५९।। उद्वोढुं स्वसुते सोऽथ, प्रोक्तो भुवनभानुना । दधौ तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः ।।१६०।। त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिहागतौ । दिष्ट्याऽपश्याव पश्यन्ती, नष्टस्वमिव सर्वतः ! ।। १६१।। महाभाग ! तदेहि त्वं, सद्योऽस्मत्स्वामिनोऽन्तिके । विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ।। १६२।।
||sil
८७७
Jel
in Education
For Personal Private Use Only